________________
निशीथसूत्रे
सूत्रम् — जे भिक्खू अन्नयरं पाणगजायं पडिग्गाहित्ता पुप्फगं- पुप्फगं आवियइ कसायं - कसायं परिद्ववेइ परिद्ववेंतं वा साइज्जइ ॥ सू० ४४ ॥
छाया - यो भिक्षुः अन्यतरत् पानकजातं प्रतिगृह्य पुष्पकं पुष्पकं आपिबति, कषायं कषायं : परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ४४ ॥
9
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अन्नयर' अन्यतरत् अन्यतरपदग्रहणात् - अनेकप्रकारकम् मधुररसयुक्तं कषायरसयुक्तं च, खण्ड - गुड - शर्करा - दाडिमी - मृद्वीकाssमलक - हरीतकी - चिश्वादिरसरूपं द्वयमपि 'पाणगजायं' पानकजातं, जातशब्दग्रहणात् प्रासुकं 'पडिग्गाहित्ता' प्रतिगृह्य - विधिपूर्वकं गृहीत्वा 'पुप्फगं - पुप्फगं आवियइ' पुष्पकं पुष्पकमापिबति, तत्र - पुष्पकं - शुभवर्ण - गन्ध - रसस्पर्शेः प्रधानम् अच्छं मनोज्ञमित्यर्थः । एतादृशमुत्तमोत्तमं पानकजातमापिबति, तथा - ' कसायं - कसायं' कषायं कषायं कलुषितं शुभवर्ण गन्ध-रस स्पर्शैः प्रतिलोमं-कलुषितमप्रधानं वा पानकजातम् 'परिट्ठवे ' परिष्ठापयति- भूमौ निक्षिपति ।
उक्तञ्च पुष्पककषायविषये
यच्च गन्धरसोपेत-मच्छं तत् पुष्पकं भवेत् ।
दुर्गन्धमरसं यच्च, कषायं कलुषं च तत् ॥ १॥ इति ।
अनेक प्रकारका नीत पानकमध्यात् यत्समीचीनं तत्पिबति यच्चाऽसमीचीनं तन्निक्षिपति । 'परिद्ववेंतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ।
साधुलक्षणमेतत् तथाहि
मा भूयासमहं साधुः, प्रायश्चित्ती कदाचन ।
मन्यते सोऽसमीचीनं, भुक्त्वा भुङ्क्ते तथेतरत् ॥१॥ अत्र भाष्यकारोऽप्याह —
भाष्यम् - वण्ण-गंध-रसोवेयं, दव्वं तं पुप्फनामगं । दुभिगंधाइसंजुत्तं, कसायं तं हवे. पुणो ॥ कसायं पुव्वमापेज्जं, पुष्फगं तयणंतरं । एसा सत्थविही वुत्ता, अनंतवरनाणिहिं ॥ -वर्ण-गंध-रसोपेतं द्रव्यं तत्पुष्पनामकम् । दुरभिगन्धादिसंयुक्तं कषायं तद् भवेत्पुनः ॥ कषायं पूर्वमापेयं पुष्पकं तदनन्तरम् । एष शास्त्रविधिः प्रोक्तः अनन्तवरज्ञानिभिः ॥
छाया -
શ્રી નિશીથ સૂત્ર