________________
चूर्णिभाष्यावचूरिः उ० १ सू० ४५ सांभोगिकपृच्छां विनाऽधिकाहारपरिष्ठापननिषेधः ६५
अवचूरिः - ' वण्णगंध' इत्यादि । यत्पानकजातं वस्तु, वर्ण- गन्ध-रसोपेतं सुवर्णेन सुगन्धेन सुरसेन मधुरादिना युक्तं भवेत् तद्-द्रव्यं पुष्पसंज्ञकं भवति । तथा यत्पानकजातं दुर्गन्धादि - विशिष्टं दुर्वर्णेन कुत्सितगन्धेन कुरसेन कठोरस्पर्शेन युक्तं तत् कषायं कलुषितं भवेत् । तत्र कषायं पानकजातं पूर्वमापेयं, तदनन्तरं पुष्पकं पिबेत् एष शास्त्रविधिः अनन्तवरज्ञानिभिस्तीर्थकरैरु रुक्तः, अतः पुष्पकं कषायं चैतद्द्द्वयमध्यानीय यत्पुष्पकं तत् पीत्वा यत्कषायं तस्य परिष्ठापनं न कुर्यात्, किन्तु प्रथमं पुष्पकं पीत्वा पश्चात् कषायं पिबेत् । उक्तञ्च -
,
__
शास्त्रकर्तुश्च मर्यादा, कषायं प्रथमं पिवेत् । आज्ञाभङ्गादिकान् दोषान् पश्यन् पश्चात्तु पुष्पकम् ॥ १ ॥
अन्यथा प्रायश्चित्तभाग् भवेत् ॥ सू० ४४ ॥
सूत्रम् — जे भिक्खू मणुण्णं भोयणजायं पडिग्गाहेत्ता बहुपरियावन्नं सिया अदूरे तत्थ साहम्मिया संभोइया समणुन्ना अपरिहारिया संता परिवसंति ते अणापुच्छिय अणिमंतिय परिद्ववेइ परिद्ववेंतं वा साइज्जइ ॥
छाया - यो भिक्षुर्मनोज्ञं भोजनजातं प्रतिगृह्य बहुपर्यापन्नं स्यात् अदूरे तत्र साधर्मिकाः सांभोगकाः समनोज्ञा अपरिहार्याः सन्तः परिवसन्ति तान् अनापृच्छ्य अनिमन्त्रय परिष्ठापयति, परिष्ठापयन्तं वा स्वदते ॥ सु० ४५ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'मणुण्णं भोयणजायं' मनोज्ञं भोजनजातम् - शुभ-वर्ण-गंध-रस - स्पर्श समन्वितमुत्तमभोजनजातम् अनेकप्रकारकमाहारादिकम् 'पडिग्गाहेत्ता' प्रतिगृह्य - आनीय भुङ्क्ते । तच्च यदि 'परियावन्नं सिया' पर्यापन्नं स्यात् - प्रयोजनतोऽधिकं भवेत् 'अदूरे तत्थ साहम्मिया' अदूरे तत्र न दूरमदूरम्-आसन्नम् क्रोशद्वयान्तराधौ ग्रामादौ साधर्मिकाः - समानधर्माचरणशीलाः साधवः 'संभोइया' सांभोगिकाः, यैः सहैकमण्डल्यामाहारादिकं कर्त्तुं कल्पते तथाविधाः साधवः 'समणुन्ना' समनोज्ञाः उद्यतविहारिणः, एतादृशाः पूर्वोक्तविशेषणविशिष्टाः सन्तोऽपि सातिचारत्वेनाऽदेयाहारा भवेयुस्तत्राह - 'अपरिहारिया' अपरिहार्याः, निरतिचारचारित्रत्वेनापरित्याज्याः, निरतिचारा इत्यर्थः । एतादृशाः साधवो यद्यासन्ने 'सता' सन्तः विद्यमानाः 'परिवसंति' क्रोशद्वयपरिमिते ग्रामादौ तिष्ठन्ति तदा 'ते अणापुच्छिय' तानू - अनापृच्छयाऽपृष्ट्वा 'अणिमंतिय' अनिमन्त्र्य, तेषां निमन्त्रणमकृत्वा, 'मत्सविधे - एतावदधिकं जातं, तस्य यदि भवतां प्रयोजनं भवेत् तदा - गृह्णन्तु भवन्तः' एवंप्रकारेण तेषामामन्त्रणमकृत्वा अपृष्वेत्यर्थः यदि 'परिद्ववेंति' परिष्ठापयन्ति, यद्वा 'परिद्ववेंत साइज्जइ' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवतीति ॥ सू० ४५ ॥
શ્રી નિશીથ સૂત્ર