________________
चूर्णिभाष्यावचूरिः उ० २ ० ४३-४४
दुरभिकषायभक्तपानपरिष्ठापन निषेधः ६३
सूत्रम् — जे भिक्खू अन्नयरं भोयणजायं पडिग्गाहित्ता सुम्भि भुंज दुभि परिवे, परिट्ठवेंतं वा साइज्जइ ॥ सू० ४३ ॥
छाया - यो भिक्षुः अन्यतरत् भोजनजातं प्रतिगृह्य सुरभि भुङ्क्ते दुरभि परिष्ठापयति, परिष्ठापयन्तं वा स्वदते ॥ सू० ४३ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अन्नयरं भोयणजायं अन्यतरद् भोजनजातम्–अनेकप्रकारकं खादिमस्वादिमादिभेदभिन्नं विविधं भोजनजातं भक्तादिकम् 'पडिग्गाहित्ता' प्रतिगृह्य, यदि श्रावकादिगृहादनेकप्रकारकं सुस्वादु दुःस्वादु वा भोजनादिकमानीय तन्मध्यात् 'सुभि भुंजइ' सुरभि मनोज्ञं विशिष्टवर्ण- गन्ध-रस-स्पर्शयुक्त भोजनं भुङ्क्ते । दुभि परिद्ववेइ' दुरभि-दुरभिगधन्युक्तं दुर्वर्ण- प्रशस्तवर्णरहितं दूरसं - प्रशस्त रसवर्जितं दुःस्पर्श - प्रशस्तस्पर्शहीनं भोज्यं परिष्ठापयति-गर्त्तादिषु प्रक्षिपति, 'परिहवेंतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदते । यो भिक्षुः श्रावकगृहादानीताहारमध्यात् सुस्वादुद्धृत्य भुङ्क्ते, दुःस्वादु परित्यजति, एवं कुर्वन्तमनुमोदते वा स प्रायश्चित्तभाग् भवति ।। सू० ४३ ॥
अत्राह भाष्यकारः -
भाष्यम् – वण्ण-गंध-रसेहिं जं, फासेहिं भोयणं जुअं । सुभितं चैव जाणिज्जा, इयरं इयरं हवे ||
-वर्णछाया - - गन्ध-रसैर्यत् - स्पशैभजनं युतम् ।
सुरभि तदेव जानीयात् इतरदितरद् भवेत् ॥
"
अवचूरि:- 'वण्ण- गंध' इत्यादि । यद्भोजनं भोक्तुं योग्यमोदनादिकम्, विलक्षणवर्णेन - श्वेतादिना, विलक्षणेन गन्धेन - सौरम्यादिना भोजनोपयुक्तेन, मनोज्ञेन -रसेन मधुरादिना, मनोज्ञस्पर्शेन-कोमलादिस्पर्शयुक्तेन, एभिर्वर्णादिभिर्युक्तं यद् भोजनं तदेव सुरभि विजानीयात् । एतादृशं भोजनं सूत्रघटक सुरभिव्यपदेशं लभते इत्यर्थः 'इयरं इयरं हवे' इतरदितरद्भवेत्, यद्भोजनमितरत्-पूर्वोक्तविलक्षणवर्णादिना नोपेतं तद् भोजनमिरतरत् दुरभि - दुर्वर्णगन्धादियुक्तमिति ज्ञेयम् । अथवा - रसोपेतमपि भोजनं दुरभिगन्धयुक्तं न प्रशस्तम्, तथा - अरसालं - शुष्कं भोजनं सुरभिगन्धयुक्तं सुरभि भवतीति । अत्र - सुरभि - दुरभि, एतदुभयप्रकारकमपि भोजनमेकतः प्रत्येकं वा गृहीत्वा सुरभिभोजनं भुङ्क्ते, दुरभि च परिष्ठापयति, तस्यैवं कुर्वतो यतेः प्रायश्चित्तं भवति । तथा - आज्ञा भङ्गानवस्थामिथ्यात्वात्मसंयमविराधनाः यस्मादेते दोषा भवन्ति, तस्माद दुरभि - भोज्यस्य वस्तुनः पूर्वं भोजनं कर्त्तव्यम्, तदनन्तरं सुरभिभोजनं कर्त्तव्यमिति ॥ सू० ४३ ॥
શ્રી નિશીથ સૂત્ર