________________
निशीथसूत्रे वायोः-अघोवातस्य पुरीषस्य च वेगधारणे मस्तकादिरोगोत्पत्तिः । मूत्रवेगधारणे नेत्रहानिः, अतो नैतेषां प्राप्तं वेगं धारयेत् । स्थानमार्गादिपरिचयाभावरूपे सति कारणे पुनर्गच्छेदपि गृहस्थादिभिः सह विचाराद्यर्थम् ॥ सू० ४१॥
सूत्रम्-जे भिक्खू अण्णउत्थिएण वा गारथिएण वा पारिहारिओ अपारिहारिएण सद्धिं गामानुगामं दूइज्जइ दूइज्जतं वा साइज्जइ ।
छाया-यो भिक्षरन्ययथिकेन वा गृहस्थेन वा पारिहारिकोऽपारिहारिकेण सार्द्ध ग्रामानुग्राम द्रवति द्रवन्तं वा स्वदते ॥ सू० ४२॥
___ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः, 'अण्णउत्थिएण वा' अन्ययूथिकेन 'गारथिएण वा' गृहस्थेन तथा 'पारिहारिओ बा' पारिहारिको वा 'अपारिहारिएण' अपारिहारिकेण 'सद्धिं' सार्द्धम् 'गामाणुगामं' ग्रामानुग्रामम् एकस्माद् ग्रामाद् ग्रामान्तरम् 'दइज्जई' द्रवति-गच्छति विहारं करोतीत्यर्थः । 'दुइज्जत वा साइज्जई' द्रवन्तं-गच्छन्तं स्वदतेऽनुमोदते । स्वयमन्यतीर्थिकादिभिर्दामाद्नामान्तरं गच्छन् गच्छन्तमनुमोदमानश्च प्रायश्चित्तभागभवति ॥ सू० ४२॥
अत्राह भाष्यकारःभाष्यम्-गामाणुगामं भिक्खुस्स, गमणं नेव कप्पा ।
अणुत्थियाइलोगेहिं, सद्धिं तस्स कयाइवि ॥ छाया-ग्रामानुग्रामं भिक्षोः गमनं नैव कल्पते ।
__ अन्ययूथिकादिलोकैः सार्धं तस्य कदाचिदपि ॥ अवचूरिः-'गामाणुगाम'-इत्यादि । भिक्षोः पारिहारिकस्य च चारित्रपालकस्य अन्ययूथिकादिलोकैः, आदिशब्देन गृहस्थैः अपारिहारिकैश्च साई ग्रामानुग्राम-एकस्माद् ग्रामाद् ग्रामान्तरं गमनं तस्य कदाचिदपि नैव कल्पते । एषु-अन्यतमेन येन केनाऽपि सह ग्रामानुग्राम विहरतः साधोराज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनादिदोषा भवन्ति । तत्र-परतीर्थिकादिभिः सह गमने तीर्थकराणामाज्ञा भग्ना भवति, तीर्थकरैस्तैः सह गमनस्य निषिद्धत्वात् । अनवस्था च भवति–एकस्तथा कुर्यात् तदा तं दृष्ट्वाऽन्योऽपि कुर्यात् , एवमन्योऽपीति-एवमनवस्था । तथा-तादृशैः सह गमनं कुर्वन्तं साधुं दृष्ट्वा द्रष्टुमनसि अश्रद्धा भवेत् , यद् इमे जैनभिक्षवोऽपि शिथिलाचाराः सन्तीति । तद्वा श्रवणादिना मिथ्यात्वमपि समुत्पधेत । तथा-तैः सह यत्र तत्र वा आधाकर्मिकाद्याहारं भुञ्जन् संयमं विराधयेत् । तथा-चौरोऽयमिति कृत्वा ताडनभेदनादिसंभवाद्--आत्मविराधनमपि संभवेदिति ॥ सू ० ४२॥
શ્રી નિશીથ સૂત્ર