SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० २ सू० ४१ अन्यतीर्थिकदिसहविचारभूम्यादिगमननिषेधः ६१ सूत्रम्-जे भिक्खू अण्णउत्थिएण वा गारथिएण वा पारिहारिओ वा अपारिहारिएण सद्धि बहिया वियारभूमि वा विहारभूमि वा णिक्खमइ वा पविसइ वा, णिक्खमंतं वा पविसंतं वा साइज्जइ ॥ सू० ४१॥ छाया-यो भिक्षुः अन्ययूथिकेन वा गृहस्थेन वा, पारिहारिको वा अपारिहारिकेण साई बहिर्विचारभूमि वा विहारभूमि वा निष्कामति वा प्रविशति बा, निष्कामन्तं वा प्रविशन्तं वा स्वदते ।। सू० ४१ ।। चूर्णी—'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अण्णउत्थिएण वा' अन्ययूथिकेन वा - परतोर्थिकेन 'गारथिएण वा' गृहस्थेन वा, तथा पारिहारिको वा अपारिहारिकेण मूलोत्तरगुणदोषवता पार्श्वस्थादिना 'सद्धि' सार्धम् एकत्र मिलित्वा 'बहिया' बहिः-'वियारभूमि वा' विचारभूमि वा तत्र-विचारः मूत्रपुरीषादिसमुत्सर्गः, तदर्थं योग्या या भूमिः सा विचारभूमिः, तां विचारभूमिम् , 'विहारभूमि वा' विहारभूमिम् , स्वाध्यायभूमिः विहारभूमिः, तां विहारभूमिम् "णिक्खमइ वा निष्क्रामति 'पविसइ वा' प्रविशति विचाराद्यर्थं गच्छति वा । 'णिक्खमंतं वा' निष्क्रामन्तं वा 'पविसंतं वा' प्रविशन्तं वा 'साइज्जई' स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ४१॥ अत्राह भाष्यकारःभाष्यम्-भिक्खुस्स नेव कप्पेइ, गंतुमण्णुत्थियाइहि । सद्धिं चारित्तपालस्स, वियारहें कयाइवि ॥ छाया-भिक्षो व कल्पते गन्तुमन्ययूथिकादिभिः । सार्द्ध चारित्रपालस्य विचारार्थ कदाचिदपि ॥ अवचूरिः-'भिक्खुस्स' इत्यादि । यो हि भिक्षुः चारित्रपालकः चारित्रस्य पालने सदा यतनावान् भवति तस्य भिक्षोः विचारार्थ मूत्र-पुरीषाधुत्सर्जनाय संज्ञाभूमिम् उपलक्षणाद् विहारभूमि वा गन्तुम्-अन्ययूथिकादिभिः सह अर्थात्-अन्ययूथिकैः परतीर्थिकैः शाक्यभिक्षुक-चरकपरिव्राजकैः सह आदिपदात्-गृहस्थैः, पारिहारिकस्य च अपरिहारिकैः सह गन्तुं न कल्पते । एतेषु गृहस्थपरतीथिकाऽपरिहारिकादिषु मध्यादेकतरेणाऽपि सह विचाराद्यर्थ चकारात्-विहाराद्यर्थ वा यो भिक्षुः पारिहारिको वा गच्छति तस्याऽऽज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनादोषा भवन्ति । विचारभूभ्यां पुरुषाद्यागमने संलोकदोषः शङ्का च लोकानां भवेत् । अप्रवर्त्तने मूत्रपुरीषादिनिरोधाद् रोगादिसंभवः । उक्तं च केनचित्कविना राजसमीपे त्रयः शल्याः महाराज!, अस्मिन् देहे प्रतिष्ठिताः। वायुमूत्रपुरीषाणां, प्राप्तं वेगं न धारयेत् ॥१॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy