________________
निशीथसूत्रे न्छति “अणुप्पविसइ वा' अनुप्रविशति-भिक्षार्थ गृहस्थगृहे प्रवेशं करोति । 'णिक्खमंत वा' निष्क्रामन्तं बहिरायान्तम् , 'अणुप्पविसंतं वा' अनुप्रविशन्तम् , 'साइज्जइ' स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति ॥ सू० ४० ॥
अत्राह भाष्यकारःभाष्यम्-नो कप्पए य भिक्खुस्स, अण्णुत्थिय-गिहत्थिहिं ।
तहेव पारिहारिस्स, तविपक्खेण केणवि ॥ सद्धिं णिक्खमिउं णिच्चं, पविसित्तुं तहेव य ।
णिक्खमणं पवेसं चे, जो करे दोसवं भवे ॥ छाया-नो कल्पते च भिक्षोः, अन्ययूथिकगृहस्थैः ।
तथैव पारिहारिणः, तद्विपक्षेण केनापि ॥ सार्द्ध निष्क्रमितुं नित्यं, प्रवेष्टुं तथैव च ।
निष्क्रमणं प्रवेशं चेद् यः कुर्याद् दोषवान् भवेत्॥ अवचूरिः-'नो कप्पए' इत्यादि । भिक्षोः श्रमणस्यान्यतीर्थिकैः गृहस्थैर्वा, तथा पारिहारिकस्य मूलोत्तरगुणयुक्तस्य तद्विपक्षेण अपारिहारिकेण मूलोत्तरगुणदोषवता पार्श्वस्थादिना साधैं गृहिगृहे भिक्षार्थ निष्क्रमितुं प्रवेष्टुं वा न कल्पते नैव कथमपि युज्यते । एतैः सह निष्क्रमण प्रवेशनं च कुर्वतः साधोः पारिहारिकस्य चाधाकर्मिकादिदोषाः समापद्यन्ते । यः कोऽपि भिक्षुः पारिहारिकश्च यदि एतैः सह निष्क्रमणं प्रवेशं च कुर्यात् तदा स आज्ञाभङ्गादिदोषभाग् भवति । सूत्रे 'गाहावइकुलं' इति पदं, तस्याऽयमर्थः-गाथा-गृहं तस्य पतिः-स्वामी, दारापत्यादिसमुदादायविशिष्टो गृहस्थः, तेषां कुलं-समूहः ।
तत्र-'पिंडवायपडियाए' इत्यस्य व्याख्या-पिण्डोऽशनादिकम् , तस्य गृहिणा दीयमानाSSहारस्य पातः ससत्कारं साधवे समर्पणम् , तस्य प्रतिज्ञया मध्यस्थभावेन ग्रहणबुद्धचा । तथा 'अणुप्पविसई' तस्याऽयमर्थः-अनु--पश्चात् चरकादिषु भिक्षामादाय गतेषु । अथवा-भोजनकालतः पश्चात् भोजनकालसमाप्त्यनन्तरम् , एवमनुशब्दः पश्चाद्योगे प्रसिद्धः, भिक्षुः पारिहारिकश्च प्रविशतीत्यर्थः । गृहि-परतीर्थिकाऽपरिहारिकाऽन्यतमेन सह प्रविशतः श्रमणस्य पारिहारिकस्य च-आज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनाऽऽत्मविराधनादिका दोषा भवन्ति ।
तथा-परिव्राजकादिभिः सह भिक्षार्थ गमने प्रवचनस्य निन्दा भवति । लोको वदतिपरिव्राजकादिप्रसादाल्लभ्यते भिक्षादिकम् , स्वयं न लभ्यते असारवचनप्रवृत्तत्वात् । अथवालोको वदेद्-अलब्धिमन्त एते जैनभिक्षुकाः परभवेऽदत्तदानाः आत्मानं न जानन्ति, अत एभिः सह परिभ्रमन्ति तस्मात् कारणाद एभिः सह न गन्तव्यम् ।। सू० ४०॥
શ્રી નિશીથ સૂત્ર