________________
चूर्णिभाष्यावचूरिः उ० २ सू० ४० अन्यतीर्थिकादिसहभिक्षार्थगमननिषेधः ५९ धर्म-गृहस्थे १, श्रामण्ये-साधुपर्याये च २। स च गृहिधर्मे स्थितस्य परिचयो द्विधा द्विप्रकारकःपूर्वसंस्तवः १, पश्चात्संस्तवः २ । तत्र-पूर्वसंस्तुताः परिचिताः-पितृ-मातृ-प्रभृतयः, पश्चात्संस्तुताः परिचिताः श्वशुर-श्वश्रूप्रभृतयः ।
___ एवं श्रामण्ये स्थितस्य परिचयः पूर्वसंस्तुतः पश्चात्संस्तुतः । अथ साधूनां पूर्व विहारसमये ये परिचितास्ते पूर्वसंस्तुताः। ये वर्तमानविहारकाले संस्तुतास्ते पश्चात्संस्तुताः । एतेषां पूर्वसंस्तुत-पश्चात्संस्तुतानां श्रावकादीनां गृहे यः साधुः प्राप्तभिक्षाकाले प्रविशति, अथवा व्यतिक्रान्तभिक्षाकाले प्रविशति तस्याऽऽज्ञाभङ्गानवस्थामिथ्यात्वादिदोषाः सम्भवन्ति, तथा संयमविराधना आत्मविराधना च भवति । तत्र संयमविराधना चेत्थम्-अकाले भिक्षार्थ परिभ्रमन्तं-गेहाद्गेहान्तरं गच्छन्तं साधुं दृष्ट्वा पूर्वसंस्तुताः पश्चात्संस्तुता वा श्रावकादयः उद्गमादिदोषयुक्तमाहारं निष्पादयिष्यन्ति, अतोऽकाले भिक्षार्थ तत्र साधुभिर्न गन्तव्यम् इति । अनाभोगादिकारणवशात्तु अकालेऽपि श्रावककुले प्रवेशो न निषिद्धः । यद्वा ग्लानाद्यर्थमकालेपि प्रविशेत् । यद्वाआकस्मिके विषूचिकादिरोगे समुपस्थिते पूर्वसंस्तुतादिकुलं प्रविशति । यद्वा यस्मिन् काले राज्ञा गमनं निवारितं 'करफ्य' इति प्रसिद्धम् , तत्समये यदि चलिष्यति तदा द्रक्ष्यति राजपुरुषः, इतिकृत्वाऽकालेऽपि चलति यदि तदा तादृशो दोषो न भवति श्रमणानाम् । अकारणे पूर्वसंस्तुतादिगृहं वेलातिक्रमेण यदि गच्छति तदा सूत्रप्रतिपादितं प्रायश्चित्तं भवत्येवेति भावः ॥ सू० ३९॥
सूत्रम्-जे भिक्खू अण्णउत्थिएण वा गारथिएण वा पारिहारिओ वा अपारिहारिएण सद्धि गाहावइकुलं पिंडवायपडियाए णिक्खमइ वा अणुप्पविसइ वा, णिक्खमंतं वा अणुप्पविसंतं वा साइज्जइ॥सू०४०॥
छाया-यो भिक्षुः अन्ययूथिकेन वा गृहस्थेन वा पारिहारिको बा अपारिहारि. केण सार्धम् गृहपतिकुलं पिण्डपातप्रतिज्ञया निष्कामति वा-अनुप्रविशति वा निष्क्रामन्तं वा-अनुप्रविशन्तं वा स्वदते ॥ सू० ४० ॥
चूर्णी-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अण्णउत्थिएण वा' अन्ययूथिकेनाऽन्यतीर्थिकेन, 'गारथिएण वा' गृहस्थेन वा 'पारिहारिओ वा' पारिहारिको वा-मूलो. त्तरगुणधारी परिहारतपोवाहको वा भिक्षुः 'अपारिहारिएण' अपारिहारिकेण-अपारिहारिको मूलोत्तरगुणदोषयुक्तः पार्श्वस्थादिस्तेन 'सद्धि' सार्धम्-युगपदेकत्रेत्यर्थः 'गाहावइकुलं' गाथापतिकुलम् , गाथा-गृहं तस्य पतिः गाथापतिः गृहस्थः, तस्य कुलं प्रति 'पिंडवायपडियाए' पिण्डपातप्रतिज्ञया भिक्षाग्रहणबुद्धया 'णिक्खमइ' निष्क्रामति-भिक्षा नीत्वा गृहस्थगृहात् निर्ग
શ્રી નિશીથ સૂત્ર