________________
mmmmmm
५८.
निशीथसूत्रे अवचूरिः– यद्वा सूत्रे-'समाणे' इति वृद्धवासवासी--वृद्धत्वग्लानत्वादिकारणवशात् स्थिरवासं स्थितः, तथा--इतर:-'वसमाणे' नवकल्पविहारी । तत्राऽष्ट कल्पाः ऋतुबद्धकालसंबद्धाः, नवमः कल्पो वर्षाकालः, तत्र विहारी नवकल्पविहारी ।
गमनं द्विविध--द्विप्रकारकमुक्तं- कथितम्-एक निष्कारणम् १, अपरं-सकारणम् २। कारणविशेषमाश्रित्य जायमानं सकारणम् , कारणमन्तरेण जायमानं निष्कारणम् । तत्र सकारणं गमनं यथाआचार्यप्रभृतीनां वैयावृत्त्यनिमित्तं भिक्षानिमित्तं वा गमनम् । एवं--निष्कारणमेव ग्रामानुग्रामं गमनम्, अकाले वा भिक्षार्थं गमनम् । तत्र इमे वक्ष्यमाणाः भूयांसो दोषा भवन्ति, तथाहि-कदाचिन्मार्गोऽशोभनो भवेत् , भिक्षा वसतिरपि न सुलभा भवति, स्वपक्षपरपक्षेभ्योऽपमानं भवति, भिक्षार्थं निषिद्धगृहे गच्छतः शास्त्रस्य-जिनप्रवचनस्य निन्दा भवति, पृथिवीकायिकादीनां जीवानां विराधना भवति । एवं निष्कारणं गच्छता षड्जीवनिकायानां विराधना क्रियते-इति संयमविराधना भवति । कण्टयादिद्वारा पादे क्षतिर्भवतीत्यात्मविराधनाऽपि । सागारिकभयात् प्रमादेन वा परिश्रान्त उपधीनां प्रतिलेखनं न करोति, उपधीनां हरणं वा भवति । एवं भिक्षाकालातिक्रमणे ग्रामं प्राप्तस्तत्राऽनेषणीयमप्याहारं अहिष्यति । हिंस्रजन्तुना खादितः आत्मविराधनं प्राप्स्यति । एवं-समयातिक्रमे भिक्षार्थ गच्छतः पश्चात्कर्मदोषा अपि भवेयुः । इत्येते अकारणगमने दोषा आपद्यन्ते इति । सकारणं गमनं द्विविधम्-निर्व्याघाते व्याघाते च गमनम् । तत्र-निर्व्याघातगमनम्-ऋतुबद्धकल्पे वर्षाकल्पे वा समाप्ते क्षेत्रात् क्षेत्रान्तरगमनम् । तत्र द्वयोः कालयोर्मध्ये एकतरस्मिन्नपि काले मासकल्पप्रायोग्यानि क्षेत्राणि यो लङ्घयति स प्रायश्चित्तभाक् । सम्प्रति व्याघातेन मासकल्पप्रायोग्यं क्षेत्रान्तरं संक्रामति, तत्र-व्याघातकारणमाह-अशिवादिगृहीतं क्षेत्रम् , तत्र स्वाध्यायादिकं सम्यक् न भवति, उपधिर्वा तत्र न प्राप्यते, आचार्यादिप्रायोग्यं वा नास्ति । एतादृशे कारणे व्याघातगमनं भवति । कारणविशेषमाश्रित्यैकस्मात् क्षेत्रात् क्षेत्रान्तरं गच्छतो दोषो न भवति यस्मात् स तीर्थकराज्ञां नातिक्रामतीति । अत्र सकारणानामधिकारः । निष्कारणं गच्छतां तु दोषो भवत्येव । एवं पूर्वोक्तप्रकारेण विहारं कुर्वतां संस्तव-इत्थं भवति ॥ सू० ३९॥
पुनराह भाष्यकारः - भाष्यम्-कुलसंथवो य तेर्सि, गिहत्थधम्मे तहेव सामण्णे ।
पुण एक्केको दुविहो, पुव्वं पच्छा य णायव्वो ॥ छाया-कुलसंस्तवश्च तेषां गृहस्थधर्मे तथैव श्रामण्ये ।
पुनरेकैको द्विविधः पूर्व पश्चाच्च ज्ञातव्यः ॥ अवचूरिः-'कुलसंथवो' इत्यादि । तेषाम् पूर्वोक्तप्रकारेण विहारं कुर्वतां भिक्षूणां संस्तवः द्विविधो-द्विप्रकारको भवति । तत्र-संस्तवो नाम परिचयः, स च द्विधा भवति-गृहि
શ્રી નિશીથ સૂત્ર