________________
चूर्णिभाष्यावचूरिः उ० २ सू० ३९
परिचयं कृत्वा पश्चाद् भिक्षार्थप्रवेशनिषेधः ५७ वचनरूपः पूर्वसंस्तवः अदत्त दाने पूर्वमेव संस्तवं करोति - मद्वनेनन सन्तुष्टोऽभिलषितं मे दास्यात । वचनरूपः पश्चात्संस्तवः - दाने दत्ते वा वचसा संस्तवं करोतीति संक्षेपः । एवं गुणसंस्तवोऽपि पूर्वपश्चाद्भेदेन विज्ञेयः || सू०३८ ॥
सूत्रम् - जे भिक्खू समाणे वा वसमाणे वा गमाणुगामं दृइज्जमाणे वा पुरेसंथुयाणि वा पच्छासंथुयाणि वा कुलाई पुव्वामेव अणुष्पविसित्ता पच्छा भिक्खायरियाए अणुप्पविसइ अणुप्पविसंतं वा साइज्जइ ॥ सू० ३९॥
छाया -यो भिक्षुः समाणो वा वसमाणो वा ग्रामानुग्रामं द्रवन् पुरः संस्तुतानि वा पश्चात् संस्तुतानि वा कुलानि पूर्वमेवानुप्रविश्य पश्चात् भिक्षाचार्यायै अनुप्रविशति अनुप्रविशन्तं वा स्वदते ॥ सू०३९||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'समाणे वा' समाणो वा यो गृद्धिरहितः समर्यादं स्थिरवास स्थितः स ' समाण' इत्युच्यते, एतादृशः साधुः, तथा योऽष्टमासिकं ऋतुबद्धकालं, चातुर्मासिकं वर्षाकालमिति नवकल्पविहारी भवति स ' वसमाण' इति कथ्यते 'समाणः ' 'वसमाणः' इति द्वावपि सैद्धान्तिको शब्दौ एतादृशः कोऽपि साधुः 'गामाणुगामं दृइज्जमाणे' ग्रामानुग्रामं द्रवन् एकस्माद् ग्रामादपरं ग्रामं विहारं कुर्वन् ' पुरेसंथुयाणि वा' पुरःसंस्तुतानि—–गृहस्थावस्थायां पूर्वं बाल्ये वयसि सस्तु वाः परिचिता ये मातृ-पितृ - बान्धवादयस्ते यत्र वसन्ति तानि, 'पच्छासंथुयाणि' पश्चात् - युवावस्थायाम् संस्तुतानि - परिचिताः श्वश्रूश्वशुरझ्यालकादयः ते, वसन्ति यत्र तानि 'कुलाई' कुलानि दीक्षाग्रहणात् प्राग्वत्तनि पूर्वापर संस्तुतानां गृहाणि 'पुच्चामेव' पूर्वमेव - भिक्षाग्रहणात्प्रागेव 'अणुप्पविसित्ता' अनुप्रविश्य - गत्वा 'पच्छा भिक्खायरिया' पश्चात् - ततः परम् पूर्वापर संस्तुतगृहाणि प्रविश्य तान् स्वागमननिवेदनबुद्धया संबोध्य तदनु पश्चात् भिक्षाचार्यायै 'अनुष्प विसइ' अनुप्रविशति - गच्छति भिक्षार्थं प्रस्तुतो भिक्षाग्रहणं पृष्ठतः कृत्वा ज्ञातिकुलं पुरा प्रयाति ततो यो भिक्षां चरति 'अणुपविसंत वा साइज्जइ' अनुप्रविशन्तम् इत्थमन्यं यः स्वदतेऽनुमोदते स प्रायश्चित्तभाक् ॥ सू० ३९॥
सूत्रे 'समाणे' 'वसमाणे' इति पाठेऽयमर्थःभाष्यम् – समाणे बुढवासी य, वसमाणे तहेयरो | गमणं दुविहं वृत्त, निक्कारण- सकारणं ॥ छाया - समाणो वृद्धवासी च वसमाणस्तथेतरः । गमनं द्विविधमुक्तं निष्कारण - सकारणम् ॥
શ્રી નિશીથ સૂત્ર