________________
निशीथसूत्रे "दातुश्च दानात्परतः पुरो वा, कुर्वन् स्तवं वाऽष्यथ कारयन् यः ! 'कुर्वन्तमन्यं यदि वाऽनुमोदते, आज्ञादिभङ्गाल्लभते स दोषान् ॥१॥ इति सारः ।। सू०३८॥ भाष्यम्-दवे खेत्ते तहा काले, भावे संथव इस्सइ ।
सपरोभयसंजाओ, संतासंतो पुणो दुहा ॥ छाया-द्रव्ये क्षेत्रे तथा काले, भावे संस्तव इष्यते ।
स्वपरोभयसंजातः, सन्नसन् पुनद्विधा ॥ अवचूरिः-'दवे'-इत्यादि । संस्तवः प्रशंसनम् चतुष्प्रकारक इष्यते भवति । तद्यथाद्रव्ये-द्रव्यविषये १, क्षेत्रे-क्षेत्रविषये २. काले-कालविषये ३, तथा-भावे-भावविषये चेति ४, द्रव्यादीनां चतुर्भेदभिन्नत्वात् , तत्सम्बन्धी संस्तवोऽपि चतुर्विध इष्यते कथ्यते इत्यर्थः । पुनः स्वपरोभयसंजातः पुनरेकैकः स्वपरोभयभेदात् त्रिविधः संजातः । पुनः स सदसद्भेदेन प्रत्येक द्विधा भवति, तत्र-आत्मपरोभयभेदादेकैकस्त्रिविधः,यथा-साधुरात्मनः संस्तवं करोति १, साधुः परस्य संस्तवं करोति २, साधुरुभयोरपि संस्तवं करोति ३ । अथवा-आत्मना संस्तवं करोतीतिआत्मसंस्तवः, इति व्युत्पत्त्या साधुरात्मना गृहस्थं संस्तौति-एष आत्मसंस्तवः १, गृहस्थः साधु स्तौति-इति परसंस्तवः २, द्वावपि परस्परं संस्तवं कुरुत इत्युभयसंस्तवः ३ । सदसद्भेदेन पुनर्द्विधा । एतेषामेकैकः पुवर्द्विविधो द्विप्रकारको भवति । सन्-विद्यमानः १, असन्--अविद्यमानश्च २ । तत्र सद्रूपे सत्सु गुणेषु प्रशंसाकरणम् १, असद्रूपेणेति असत्स्वपि गुणेषु प्रशंसाकरणम् २ । अथवा सदिति विद्यमाने तस्मिन् तस्य समक्षं प्रशंसनम् १, असदिति अविद्यमाने तस्मिन् तस्य परोक्षं प्रशंसनमिति २। द्रव्य -क्षेत्र-कालैस्त्रिविधसंस्तवमध्ये द्रव्यसंस्तवमाहयथा कश्चित् परेण पृष्टः-किं भवान् पूर्व धनवानासीत् ? साधुर्वदति-एवमहं धनवानासम् ? स साधुः पूर्वं धनवानासीन्न वेति सन्देहः किन्तु तथा वदति । ततो गृहस्थ आह–अमुको हि धनवान् श्रेष्ठी-अमुकनामानं भवन्तं न जानाति भवानेवं कथयति, दरिद्रः प्रव्रजति न धनिक इति । तत्-श्रुत्वा गर्वयुक्तः साधुः परं निन्दन् स्वात्मानं प्रशंसन् एवं वदति-यथेदानी भवानैश्वर्ययुक्तस्तथाऽहमपि पूर्वमासम् , इति ।
क्षेत्रसंस्तवमाह-यथा-साधु प्रति कश्चित् पृच्छति-त्वं कस्मात् क्षेत्रात् प्रव्रजितवान् साधुर्वदति--युष्माकमेवाहं सहवासी ।
कालसंस्तवमाह-कस्मिन् वयसि प्रबजितः ? इति पृष्टो वदति-त्वत्सदृशवयस्क एव प्रव्रज्यां प्राप्तवानस्मि । अथवा-प्रथमे वयसि-उद्वाहिते सति प्रव्रजितः स्थापितविवाहदिने वा प्रव्रजितः ।
भावसंस्तवमाह-भावसंस्तवो द्विप्रकारकः संयते वचने च । यथा कश्चित् साधु पृच्छतियोऽमुकः प्रवजितः स त्वत्सदृश एव ? साधुराह- एवमेव । अथवा- तूष्णीं स्थितो भवति, वदति वा-क एवं पृच्छति !
શ્રી નિશીથ સૂત્ર