________________
चूर्णिभाष्यावचूरिः उ० २ सू० ३२-३६ नैत्यिकाग्रपिण्डाद्युपभोगनिषेधः ५३
अवचूरिः--'निमंतणं' इत्यादि निमंतणं' निमन्त्रणम्-आमन्त्रणम्, भोजनादिग्रहणार्थमभ्यर्थनमित्यर्थः । 'उप्पीलणं देशी शब्दः तदर्थस्तु-उपहासः २। परिमाण भोजनस्येयत्ता ३। स्वाभाविकं स्वतः सिद्धम् , यथा-गृहस्थस्य दानम् ४। अत्राऽऽद्यास्त्रयो न कल्पन्ते, चतुर्थोऽपि नैत्यिकाग्रपिण्डदोषरहितः स्वाभाविकपक्षः साधूनां कल्पते । ।
अयं भावः-निमन्त्रणोप्पीलणपरिमाणानामेतत्स्वरूपम् , तथाहि-कश्चित् श्रद्धालुः श्रावकः श्रमणसमीपमागत्य निवेदयति-भगवन् ! ममोपरि क्रियतामनुग्रहः, मद्गृहे समागत्य भक्तपानादिकं गृह्यताम् । इति प्रथमो भेदः (निमन्त्रणम्) १।
'उप्पीलणं' यथा-श्रमणो वदति-भो श्रावक ! तवोपरि करोम्यनुग्रहम् किन्तु-कथय यत् किं दास्यसि ?। श्रावको वदति-यद्भवतामभीष्टम् , येन वस्तुना भवतः प्रयोजनं तदास्यामि । तदनन्तरं साधुरुपहासमिव कुर्वन् वदति-भोः श्रावक ! अत्र प्रतिश्रुत्य गृहं नेष्यसि तत्र गतः सन् यदि नो दास्यसि तदा किम् ? एवं प्रकारेण-उप्पीलणमु हासंपकरोति । इति द्वितीयो भेदः २।।
अथ परिमाणस्वरूपमाह-अवश्यमेव दास्यामि नाऽत्र सन्देहः । एवं कथिते गृहस्थे साधुः परिमाण वदति-भोः श्रावक ! कियत्परिमाणं दास्यसि ? कियत्कालपर्यन्तं दास्यसि ? किं दास्यसि ?, यदि स्वल्पं दास्यसि अदत्तवत् स्यात् । ततो दाता वदति-यावता भक्तेन-पानेन वा भवतः प्रयोजनम् , यावन्तं वा कालं भवतः प्रयोजनं तावन्तं कालं भवते परिपूर्णमोदनादिकं दास्यामि , किं बहुना - यद्वस्तु भवते रोचते, यावत्परिमाणं वा रोचते, यावत्कालं वा तावत्कालपर्यन्तमपरिहीनमपरिश्रान्तोऽहं दास्यामि । इति तृतीयो भेदः ३। अत्र-निमन्त्रणोप्पीलणपरिमाणेषु प्रायश्चित्तं भवति । स्वाभाविकं यद् भक्तपानादिकमात्मार्थ गृहस्थेन निष्पादितं नैत्यिकाग्रपिण्डदोषवर्जितं च तदेव साधुभिाह्यम् नत्वन्यत् । इति चतुर्थो भेदः ४।
अत्राह कश्चित्-चतुष्प्रकारकेऽपि अग्रपिण्डे न किमपि दोषं पश्यामि ? आचार्यः प्राह-यत्स्वास्मार्थ स्वभावत एव निष्पादितं तत्-नितिकम् अनिमन्त्रितमनुप्पीलणमपरिमाणमपि यदि निमन्त्रणादिभिक्षाकणेनाऽपि स्पृष्टं तत्साधूनां न कल्पते । एतत् त्रयातिरिक्तं स्वाभाविकमपि भक्तपानादिकं यदि नियताप्रपिण्डदोषवर्जितं भवेत् तत् साधूनां कल्पते इति ।
स्वात्मार्थ निष्यादितेऽपि नियताग्रपिण्डदोषनिमन्त्रणादिदोषदूषिते इमे दोषा भवन्तिआत्मार्थ निष्यन्नेऽपि-उद्गमादिदोषा भवन्ति, साधुनिमित्तमयं पिण्डो नियमितः, इत्यवश्यं दातव्यम् , इति कृत्वा कुण्डादिषु स्थापयति तस्मात्-निमन्त्रणादिपिण्डो वर्जनीयः ॥ सू० ३२॥
શ્રી નિશીથ સૂત્ર