________________
निशीथसूत्रे सूत्रम्-जे भिक्खू लवगवेसियं पडिग्गहं धरेइ धरतं वा साइज्जइ । छाया-यो भिक्षुर्लवगवेषितं प्रतिग्रहं धरति धरन्तं वा स्वदते ॥ सू० ३१ ।।
चूर्णी-'जे भिक्खू, इत्यादि । 'जे मिक्खू, यो भिक्षुरित्यादि पूर्ववत् । नवरम्'लवगवेसियं,लवगवेषितम् तत्र-लवो नाम-यो दानफलं दर्शयित्वा वनपात्रादिकमुत्पादयति, तादृशः पुरुषो लव इति कथितो भवति, तेनान्विष्यानीतम् । यो हि भिक्षुर्वस्त्रपात्रादिस्वामिनं वस्त्रपात्रादिदानस्य फलं श्रावयित्वा तस्माद्वस्त्रपात्रादिकमादत्ते दापयति चान्यस्मै । तथा यथोकव्यापारेणाऽऽददानमन्यमनुमोदते स प्रायश्चित्तभागिति भावः ॥ सू० ३१ ॥ भाष्यम्-दाणफलं तु दंसीय, आदेइ दावए खलु ।
वत्थपायाइगं नृणं, तारिसो लव बुच्चइ ॥ छाया-दानफलं तु दर्शयित्वा आदत्ते दापयेत्खलु ।
वस्त्रपात्रादिकं नूनं तादृशो लव उच्यते ।। अवचूरिः--'दाणफलं' इत्यादि । यो भिक्षुः दानस्य फलं दर्शयित्वा वस्त्रपात्रादिकमादत्ते-आनयति लोकेभ्यः, दापयति चाऽन्यस्मै स लव उच्यते-कथ्यते । तत्र दानं द्विविधम्लौकिकं लोकोत्तरं च । लोकमुद्दिश्य यद्दीयते तल्लौकिकम् । कर्मनिर्जरार्थ दातव्यमितिबुद्धया पात्राय महाव्रतधारिणे यद्दानं तल्लोकोत्तरम् ॥ सू० ३१ ॥
सूत्रम्--जे भिक्खू णितियं अग्गपिंडं भुंजइ भुजंतं वा साइज्जइ॥ छाया-यो भिक्षु३त्यिक-अग्रपिण्डं भुङ्क्ते भुञ्जन्तं वा स्वदते ।। सू० ३२ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'णितियं' नैत्यिक नियतं वा, तत्र नैत्यिकं प्रतिदिनम् , नियतं नियतकालप्रतिबद्धं-यथा कस्मिंश्चिद् गृहे कचित् दिनद्वयमन्तराकृत्य दिनत्रयादिकं वा व्यवधानीकृत्य नियमतो गमनं नियतशब्दार्थः । 'अग्गपिंडं' अप्रपिण्डम् अनः प्रधानः पिण्डः-अग्रपिण्डस्तम् , अथवा भोजनात्पूर्व यो निष्कास्यते सः तम् अग्रपिण्डम् । यदा तदा साधुभ्योऽन्नपानवितरणकाले अग्रपिण्डं भुङ्क्ते भुञ्जन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवतीति ॥ सू० ३२ ॥ भाष्यम्-निमंतणं उप्पीलणं, परिमाणं सभावियं ।
आइल्ला तिणि नो कप्पे, कप्पेज्जा य चउत्थगं ॥ छाया-निमन्त्रणमुप्पीलणं परिमाणं स्वाभाविकम् ।
आद्यास्त्रयो न कल्पन्ते कल्पते च चतुर्थकम् ॥
શ્રી નિશીથ સૂત્ર