SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० २ सू० २७-३१ निजकादिगवेषितपात्रधारणनिषेधः ५१ सूत्रम्-जे भिक्खू वरगवेसियं पडिग्गहं धरेइ धरतं वा साइज्जइ ॥ छाया-यो भिक्षुर्वरगवेषितं प्रतिग्रहं धरति धरन्तं वा स्वदते ॥ सू० २९॥ । चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिखू' यो भिक्षुरित्यादि पूर्ववत् । नवरम्-'वरगवेसियं' वरगवेषितम् । तत्र-वरो नाम ग्राम प्रधानः पुरुषस्तेन गवेषितमन्विष्यानोतम् ॥ सू० २९॥ संप्रति वरशब्दार्थमाह भाष्यकारः- 'जो जत्थ' इत्यादि । भाष्यम् -जो जत्थ माणणिज्जो य, गामाइम्मि महत्तरो । पामाणिओ पहाणो सो, वरो तत्थ पउज्जइ ॥ छाया-यो यत्र माननीयश्र प्रामादौ महत्तरः । प्रामाणिकः प्रधानः स वरस्तत्र प्रयुज्यते ॥ अवचूरिः- यः पुरुषो यत्र ग्रामादौ नगरादौ लोकैर्नागरिकैः संमानितो नागरादिषु मुख्यः प्रामाणिकः प्रधानश्च, तत्र वरशब्दः प्रयुज्यते । तेनानीतं पात्रादिकं गृह्णतो ग्राहयतः गृह्णन्तमनुमोदमानस्याऽऽधाकर्मिकादिमिथ्यात्वाऽऽत्मविराधनसंयमविराधनादयो दोषा भवन्ति ॥ सू० २९ ।। सूत्रम्-जे भिक्खू बलगवेसियं पडिग्गहंधरेइ धरतं वा साइज्जइ ॥ छाया-यो भिक्षुर्बलगवेषितं प्रतिप्रहं धरति धरन्तं वा स्वदते ॥ सू० ३० ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुरित्यादि पूर्ववत् । नवरम्'बलगवेसियं' बलगवेषितम् । बलवता-शरीरजनपदादिबलविशिष्टेन पुरुषेण गवेषितमन्विध्यानीतम् ।। सू० ३० ॥ भाष्यम्-जस्सोवरि पहू जो उ, बलड्ढो वा भवे अवि । बलबंतो सो विन्नेओ, घरसामी जहा मओ ॥ छाया-यस्योपरि प्रभुर्यस्तु वलाढयो वा भवेदपि । बलवान् स विज्ञेयो गृहस्वामी यथा मतः ॥ अवचूरिः-'जस्सोवरि' इत्यादि । यः पुरुषो यस्योपरि प्रभुत्वं-स्वकीयं प्रभाव करोति, तथा बलाढयः बलेन-शरीरादिबलेन समृद्धो भवेत् स बलवान् विज्ञेयः । तत्र दृष्टान्तं दर्शयति-'घरसामी' इत्यादि । यथा-येन प्रकारेण गृहस्वामी स्वकीयपरिवारोपरि प्रभुत्वं कुर्वन् परीवारे बलवान् भवति, यथा वा-शरीरबलेनोर्जितः सिंहो वनपशुं प्रति बलं दर्शयन् बलवान् कथ्यते, यथा वा कश्चिद्विद्वान् सामान्यजनं प्रति स्वविद्याबलं दर्शयन् प्रभुर्बलवान् इति कथ्यते । यद्वा-कश्चिदप्रभुरपि-अबलोऽपि बलवान् भवति-यथा गृहस्वामी, न तादृशः प्रभुः किन्तु स्वपरिवारे बलवानिति कथ्यते, एतादृशबलवता पुरुषेणाऽन्विष्यानीतं पात्रं यो भिक्षुर्धरति, धरन्तं वाऽनुमोदते स प्रायश्चित्तभाग् भवति तथा तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनादयो दोषा भवन्तीति ॥ सू० ३० ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy