________________
निशीथसूत्रे
सूत्रम् - जे भिक्खू दंडयं वा लट्ठियं वा अवलेहणियं वा वेणुसूइयं वा सयमेव परिघट्टेइ वा संटवेइ वा जमावेइ वा परिघट्टेत वा संठवेंत वा जमावेंतं वा साइज्जइ ॥ सू० २६ ॥
५०
छाया - यो भिक्षुः दण्डकं वा यष्टिकां वा अवलेहनिकां वा वेणुसूचिकां वा, स्वयमेव परिघट्टयति वा संस्थापयति वा यमयति वा, परिघट्टयन्तं वा संस्थापयन्तं वा यमयन्तं वा स्वदते ॥ सू० २६ ॥
वा-क
"
·
चूर्णिः - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'दंडयं वा' दंडकं वा दण्डः- रजोहरणसम्बन्धी तम् 'लट्ठियं वा' यष्टिकां वा - लघुदण्डं 'अवलेहणिय वा' - अवलेहनिकां - कर्दमावगुण्ठितचरणे तदपनयनाय शलाकाविशेषस्ताम् ' वेणुसूइयं वा' वेणुसूचिकां वावेणुर्वशस्तन्मयी सूची ताम् 'सयमेव परिघट्टे' स्वयमेव परिघट्टयति, परिघट्टनं निर्माणम् तथाचदण्डादीनां निर्माणं करोतीत्यर्थः । 'संठवेइ वा' संस्थापयति दण्डादिकस्य हस्तिमुखसिंहमुखादीनां निर्माणं करोति । ' जमावेइ वा' यमयति वक्रदण्डादीन् ऋजून् करोति । 'परिघट्टेतं वा' परिघट्टयन्तं - निर्माणं कुर्वन्तम्, 'संठवेंतं वा' संस्थापयन्तम्, 'जमावेंतं वा' यमयन्तं वक ऋजुं कुर्वन्तम् ' साइज्जइ' स्वदतेऽनुमोदते स प्रायश्चित्तभाग्भवति ॥ सू० २६ ।।
सूत्रम् — जे भिक्खू णियगगवेसियं पडिग्गहं धरेइ धरेंतं वा साइज्जइ ॥ सू० २७ ॥
छाया- -यो भिक्षुर्निजकगवेषितं प्रतिग्रहं धरति धरन्तं वा स्वदते || सू० २७ ।।
-
चूर्णि: - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'णियगगवेसियं' निजकगवेषितम्, निजकः स्वजनः सांसारिको मातृ-पितृ--बन्धु - बान्धवादिः तेनाऽन्विष्यानीतम् 'पडिग्गहं' प्रतिग्रहं - पात्रम् 'घरेइ' धरति पार्श्वे स्थापयति गृह्णाति । 'घर वा साइज्जइ' घरन्तं पार्थे स्थापयन्तमन्यं स्वदतेऽनुमोदते स प्रायश्चितभाग्भवति ॥ सू० २७ ॥
सूत्रम् — जे भिक्खू परगवेसियं पडिग्गहं धरेइ धरेंतं वा साइज्जइ ॥ सू० २८ ॥
छाया - यो भिक्षुः परगवेषितं प्रतिग्रहं धरति, धरन्तं वा स्वदते ॥ सू० २८ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुरित्यादि पूर्ववत् । नवरम् — 'परगवेसियं' परगवेषितम्, तत्र - परोऽन्यः स्वजनातिरिक्तः सामान्यगृहस्थः विसंभोगी संयतो वा, तेन गवेषितमन्विष्यानीतम् ॥ सू० २८ ॥
શ્રી નિશીથ સૂત્ર