SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० २ सू० २५-२६ पात्रदण्डकादीनां परिघट्टनादिनिषेधः ४९ - 'अभिण्ण०' इत्यादि । ननु - अभिन्नवस्त्रधारण को दोषस्तत्राह भाष्यकारः -' भाष्यम् – अभिण्णवत्थजुत्तस्स, भवे चोरभयाइयं । पडिलेहणवाधार, संजमत्तविराहणं ॥ छाया - अभिन्नवस्त्रयुक्तस्य भवेच्चौरभयादिकम् । प्रतिलेखन वाघादि संयमात्मविराधनम् ॥ अवचूरि :- अभिन्नवस्त्रयुक्तस्य साधोः चौरभयम्, चौरो हि-अभिन्नवस्त्रं दृष्ट्वा तल्लोभात्- चोरयितुमागच्छेत्, मारयेदपि कदाचित्साधुमित्यात्मविराधना संभवः । तथा - तादृशविपुलवस्त्रस्य सम्यक् प्रतिलेखनमपि न संभवतीति तदकरणजनितोऽपि दोषः । प्रतिलेखनाद्यकरणे संयमविराधनं स्यात्, अतः साधुभिरभिन्नवस्त्रं न धारणीयम् ॥ सू० २४ ॥ सूत्रम् - जे भिक्खू लाउपायं वा दारुपायं वा मट्टियापायं वा सयमेव परिघट्टेइ वा संवेइ वा जमावेइ वा परिघट्टेतं वा संख्येत वा जमार्वेतं वा साइज्जइ ॥ सू० २५ ॥ छाया - यो भिक्षुः अलाबूपात्रं वा दारुपात्रं वा मृत्तिकापात्रं वा स्वयमेव परिघयति वा संस्थापयति वा 'जमावेइ' इति यमयति वा परिघट्टयन्तं वा संस्थापयन्तं वा यमयन्तं वा स्वदते ॥ सू० २५ ॥ चूर्णि: - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'लाउपायं वा' अलाबूपात्र वा 'तुम्बा' इति लोकप्रसिद्धम् ' दारुपायं वा' काष्ठपात्रं वा, 'महियापायं वा' मृत्तिकापात्रं वा 'सयमेव परिघट्टेइ' स्वयमेव परिघट्टयति-निर्माति । 'संठवेइ वा' संस्थापयतितत्र - संस्थानमवयवविशेषः मुखादिकं पात्रस्य करोतीत्यर्थः । ' जमावेइ वा यमयति-विषमं समं करोति, तथाच पात्राणां विषमभागं समीकरोतीत्यर्थः । तथा - ' - 'परिघतं वा' परिघट्टयन्तं वा - निर्माणं कुर्वन्तं वा 'संठवेंतं वा' संस्थापयन्तं वा, 'जमावेंतं वा' यमयन्तं वा, विशेषतो विषमभागस्य समतां कुर्वन्तं वा 'साइज्जइ' स्वदतेऽनुमोदते स प्रायश्चित्तभाग्भवति । तत्र — पूर्वघट्टितादिपात्राणां ग्रहणं कल्पते, तत्र--त्रिविधमपि पात्रं बहुकर्मिताऽल्पकर्मिताऽपरिकर्मितभेदात् त्रिप्रकारकं भवतीति प्रकृतसूत्रविषये प्रथमोदेशके --एव व्याख्यानं कृतं तत एव द्रष्टव्यम् । विशेषस्तु केवलमेतावानेव यत् प्रथमोदेशके परकृतं निषिद्धम् अत्र तु स्वयंकरणस्य निषेध इति ॥ सू० २५ ॥ " શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy