________________
AAAAAAAAAAAAAA
निशीथसूत्रे सम्प्रति भावकृत्स्नं दर्शयति- 'दुविह' इत्यादि । भाष्यम्-दुविहं भावकसिणं, वण्णमुल्लपमेयओ ।
वण्णओ पंचहा वुत्तं, मोल्लो तिविहं मयं ॥ छाया-द्विविधं भावकृत्स्नं वर्णमूल्यप्रभेदतः ।
___ वर्णतः पञ्चविधं प्रोक्तं भूल्यतस्त्रिविधं मतम् ॥
अवचूरिः-भावकृत्स्नं द्विविधं-द्विप्रकारकं भवति, वर्ण-मूल्य-भेदात् । वर्णकृत्स्नम् , मूल्यकृत्स्नं च, तत्र-वर्णकृत्स्नं पञ्चविधम् पञ्चप्रकारकं भवति , वर्णानां पञ्चप्रकारकत्वात् । मूल्यकृत्स्नं तु त्रिप्रकारकं भवति जघन्यमध्यमोत्कृष्टभेदादिति ॥ सू० २३ ॥
तत्र वर्णत इदम् - भाष्यम्-पंचण्हमवि वण्णाणं, वण्णड्ढण्णयरेण जं ।
कसिणं वण्णजुत्तं तं, जहन्नुक्कोसमज्झिमं ॥ छाया-पञ्चानामपि वर्णानां वर्णाढयमन्यतमेन यत् ।
__ कृत्स्नं वर्णयुक्तं तत् जघन्योत्कृष्टमध्यमम् ॥ अवचूरि:--'पंचण्हमवि'-इत्यादि । पञ्चाना-पञ्चप्रकाराणां कृष्ण-नील-रक्त-पीतशुक्लभेदभिन्नवर्णानां मध्यात् येन केनचित्कृष्णादिना वर्णेन-आढचमतिशयेन युक्तम् यथा-कृष्णंपुंस्कोकिलतुल्यम् , नीलं-शुकपक्षसन्निभम् , रक्तम्-इन्द्रगोपकीटसन्निभम् , पीतं-तापितस्वर्णसदृशं, शुक्लं-शङ्खशशाङ्कतुषारसन्निभम् । तदेवं विविधवर्णयुक्तं वर्णकृत्स्नमिति कथ्यते । तदपि वर्णकृत्स्नं जघन्यमध्यमोत्कृष्टभेदात् त्रिप्रकारकम् । तस्मात्-कृष्ण-नील-रक्त-पीत वस्त्रं कदापि न ग्राह्यम् , शुक्लं तु ग्राह्य, तदपि शास्त्रदर्शितमेव साधारण शुक्लं ग्राह्यम् , तदपि बहुमूल्यं न ग्राह्यम्-इति ॥ सू० २३ ॥
सूत्रम्-जे भिक्खू अभिण्णाई वत्थाई धरेइ धरतं वा साइज्जइ।२४। छाया-यो भिक्षुरभिन्नानि वस्त्राणि धरति घरन्तं वा स्वदते ॥ सू० २४ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अभिण्णाई वत्थाई अभिन्नानि-अखण्डितानि वस्त्राणि 'धरेइ' धरति-परिदधाति पार्श्वे स्थापयति वा, अन्यं धारयति, 'धरेंतं वा साइज्जई' धरन्तं-धारयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाक् । अभिन्नवस्त्रं नाम-विक्रयणस्थाने पूर्व न खण्डितं भवेत् 'ताका' इति भाषाप्रसिद्धम् , तत् साधुभिर्न धार्यम् किन्तु 'ताका' इति भाषाप्रसिद्धाद् यद् खण्डीकृतं वस्त्रं भवेत् तद् दातुः प्राप्य तस्यापभोगः करणीय इति सूत्राशयः ॥ सू० २४ ॥
શ્રી નિશીથ સૂત્ર