________________
निशीथसूत्रे
सूत्रम् - जे भिक्खू णितियं पिंडं भुंजइ भुजतं वा साइज्जइ ॥ ३३ ॥
छाया - यो भिक्षुनैत्यिकं पिण्डं भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू० ३३॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'णितियं' नैत्यिकं 'पिंडं' पिण्डं अहरहरेकस्मादेव गृहादानीतम् 'भुंजइ' भुङ्क्ते, भोजयति 'भुजंतं वा साइज्जइ' भुञ्जानं वा स्वदतेऽनुमोदते तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ सू० ३३ ॥
सूत्रम् - जे भिक्खू णितियं अवड्ढभागं भुंजइ भुंजंतं वा साइज्जइ ॥ सू० ३४ ॥
छाया -यो भिक्षुर्नैत्यिकमपार्द्धभागं भुङ्क्ते - भुञ्जन्तं वा स्वदते ॥ सू० ३४ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'णितियं' नैत्यिकम् 'अवड्ढभागं ' अपार्द्धभागं-भक्तस्यार्द्धभागमपि अर्थात् पात्रे स्थाल्यादौ स्थापित भोजनस्यार्ध भाग स्त्रि भागश्चतुर्थभागो वायो दानार्थं निष्कासितः यस्मिन् गृह्यमाणेऽन्यस्यान्तरायसंभवात्, एवंविधभोजनापार्द्धभागम् 'भुजइ' भुङ्क्त, भोजयति 'भुजंतं वा साइज्जइ' अपार्द्धभागं भुञ्जानं स्वदतेऽनुमोदते तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ सू० ३४ ॥
सूत्रम् -- जे भिक्खू णितियं भागं भुंजइ भुंजंतं वा साइज्जइ ॥ ३५ ॥
५४
छाया -यो भिक्षुनैत्यिकं भागं भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू० ३५ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'णितियं भागं ' नैत्यिकं भागं यत्र प्रतिदिनं यो भागो दानार्थं निष्कास्यते तं भागं 'भुंजइ' भुङ्क्ते 'भुजंतं वा साइज्जइ' भुञ्जानं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ३५ ॥
सूत्रम् -- जे भिक्खू णितियं ऊणडूढभागं भुंजइ भुंजंतं वा साइज्जइ ॥
छाया -यो भिक्षुर्नैत्यिकमूनार्द्धभागं भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू० ३६ ॥
"
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'णितियं' नैत्यिकम् 'ऊणइढभागं' ऊनार्धभागं - त्रिभागादितोऽप्यर्द्धभाग ऊनार्द्धभागस्तम् 'भुंजइ' स्वयं भुङ्क्ते । भुजतं वा साइज्जइ' भुञ्जानं वा स्वदते । यः साधुः पुण्यार्थरक्षित भोजनमध्यात् कमपि भागं भुङ्क्ते, भोजयति, तथा भुञ्जानमनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ३६ ॥
भाष्यम् – पिंडो भत्तट्टगो णेओ, तयद्धं च अवड्ढगो । भागो विभागो तस्सद्धं, ऊणड्ढो सो वियाहिओ || पिंडे uिre अवड्ढे, भागे ऊणढगे तहा । एस एव गमो णेओ, सन्वया सत्यसंमओ |
શ્રી નિશીથ સૂત્ર