SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे इढाओ मासाओ' द्वयर्धान्मासात् परमधिकं यदि धारणं करोति धरन्तं वा स्वदते स प्रायश्चित्तभाग् भवति । उत्सर्गतो व्याघातितं रजोहरणं यः सार्द्धमासादधिककालपर्यन्तं धारयति, यद्वा-धरन्तमनुमोदते स आज्ञाभङ्गदोष-मनवस्थादोषं मिथ्यात्वदोषमात्मविराधनं संयमविराधनं च प्राप्नोति ॥ सू० ७॥ सूत्रम्-जे भिक्खू दारुदंडयं पायपुछणं विसुयावेइ विसुयावेत वा साइज्जइ ॥ सू०८॥ छाया–यो भिक्षुरुदण्डकं पादप्रोञ्छनं विशुष्कयति विशुष्कयन्तं वा स्वदते ॥ चूर्णी—'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः दारुदंडयं पायपुंछणं दारुदंडकं निषद्यारहितं पादप्रोञ्छनं-रजोहरणम् 'विसुयावेइ' विशुष्कयति आतपे ददाति 'विसुयावेत वा साइज्जइ' विशुष्कयन्तं वा स्वदते-आतपे ददतं वाऽनुमोदते, तस्याज्ञाभङ्गादिका दोषा भवन्ति ।८। सूत्रम्-जे भिक्खू अचित्तपइट्ठियं गंधं जिग्घइ जिग्छतं वा साइज्जइ॥ सू०९॥ छाया-यो भिक्षुरचित्तप्रतिष्ठितं गंधं जिघ्रति जिघ्रन्तं वा स्वदते ॥ सू० ९॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'अचित्तपइट्ठियं' अचित्तप्रतिष्ठितम् , अचित्ते वस्तुनि चन्दनकाष्ठादौ यत्र तत्र वा प्रतिष्ठितं विद्यमानम् 'गंधं' गन्धम् सुगन्धम् 'जिग्घई' जिघ्रति, गन्धो द्विविधः-संबद्धः असंबद्धो वा, संबद्धो गन्धः सः यो नासिकासंबन्धेन आघ्रायते, असंबद्धो गन्धः स यो दूरतः समीपतो वा वायुद्वारा समागत आघ्रायते, अथवा संबद्धो गन्धः स यश्चन्दनकाष्ठादौ स्थितः, असंबद्धः सः यः गन्धद्रव्यात्पृथक्कृतश्चन्दनादीनां तैलरूपो निर्यास(अतर)रूपो वा, तं द्विविधमपि गन्धं रागेण द्वेषेण वा जिघ्रति, 'जिग्छतं वा साइज्जई' जिवन्तं वा स्वदतेऽनुमोदते तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ म० ९॥ भाष्यम्-अचित्ते दध्वजाए जं, गंधजायं पवत्तए । अग्घाणं दुविहं तस्स, संबद्धं च तहेयरं ॥ दुविहंपि गंधजायं, जिग्घई रागओ जई । आणाभंगाइ पावेइ, मिच्छत्तं पडिवज्जइ ॥ छाया-अचित्ते द्रव्यजाते यत् , गन्धजातं प्रवर्त्तते । आघ्राणं द्विविधं तस्य, संबद्धं च तथेतरत् । द्विविधमपि गन्धजातं, जिघ्रति रागतो यतिः । आज्ञाभङ्गादि प्राप्नोति, मिथ्यात्वं प्रतिपद्यते ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy