________________
चूर्णिभाष्यावचूरिः उ० २ सू० ४-८
दारुदण्डकपादनोञ्छनप्रकरणम् ३५ छाया-यो भिक्षुरुदण्डकं पादप्रोञ्छनं धरति धरन्तं वा स्वदते ॥ सू० ३ ॥ चूर्णी-'धरेइ' धरति धारणं करोति धरन्तं वाऽनुमोदते। अन्यत्सुगमम् ॥ सू० ३ ॥ सूत्रम्-जे भिक्खू दारुदंडयं पायपुंछणं वियरइ वियरंतं वा साइज्जइ ४ छाया-यो भिक्षुरुदण्डकं पादप्रोञ्छनं वितरति वितरन्तं वा स्वदते ॥ सू०४ ॥ चूर्णी-'वियरइ' वितरति तत्र-वितरणं अन्यस्मै दानम् । अन्यत्सुगमम् ।। सू० ४ ।।
सूत्रम्-जे भिक्खू दारुदंडयं पायपुंछणं परिभाएइ परिभाएंतं वा साइज्जइ ॥ सू०५॥
छाया-यो भिक्षुरुदण्डकं पादप्रोञ्छनं परिभाजयति परिभाजयन्तं वा स्वदते ।।
चूर्णी- यो भिक्षुर्दारुदण्डकं पादप्रोञ्छनं परिभाएई' परिभाजयति-स्वार्थे णिच् विभजति, विभजन-विभागकरणम् 'परिभाएतं वा' परिभाजयन्तं वा विभजन्तं वाऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ५ ॥
सूत्रम्-जे भिक्खू दारुदंडयं पायपुंछणं परिभुजइ परिभुजंतं वा साइज्जइ ॥ सू०६॥
छाया-यो भिक्षुर्दारुदण्डकं पादप्रोञ्छनं परिभुङ्क्ते परिभुञ्जन्तं वा स्वदते ॥६॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुर्दारुदण्डकं पादप्रोञ्छनं रजोहरणम् 'परिभुजइ' परिभुङ्क्ते, तत्र-परिभोगः परिभुञ्जनम् तादृशरजोहरणेन प्रमार्जनादिकार्यसंपादनम् । तथा-'परिभुजंतं वा साइज्जइ' परिभुञ्जन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवतीति ॥ सू० ६ ॥
सूत्रम्-जे भिक्खू दारुदंडयं पायपुंछण परंदिवड्डाआ मासाओ धरेइधरतं वा साइज्जइ ॥ सू० ७॥
छाया यो भिक्षुरुिदण्डकं पादप्रोञ्छनं परं द्वथर्धात् मासात् धरति धरन्तं वा स्वदते ॥ सू०७॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यो भिक्षुः 'दारुदंडयं' दारुदण्डकम् 'पाय पुंछणं' पादप्रोञ्छनम्-वस्त्रवेष्टनरहितदारुदण्डयुक्तरजोहरणम् कदाचित्-वस्त्राऽभावात् आगाढभयात्, अग्निदाहात्, राजप्रद्वेषाद् , अशिवादिकारणात् , तादृशोन्मादादिदोषग्रस्तशिष्योपसर्गाद्वा, इत्यादिकारणवशाद यदि धारयेत् तदापि तत् सार्द्धमासपर्यन्तं धारयेत् । ततः परं दिव
શ્રી નિશીથ સૂત્ર