________________
चूर्णिभाष्यावचूरिः उ० २ सू० ९-१०
गन्धाघ्राणपदमार्गादिनिरूपणम् ३७ अवचूरिः–'अचित्ते' इत्यादि । अचित्ते द्रव्यजाते शुष्कचन्दनकाष्ठादौ यत्र तत्र वाsन्यत्र गन्धजातं यत्किञ्चित्प्रकारकं सुगन्धजातं प्रवर्तते, तस्य गन्धजातस्याऽऽघ्राणं द्विविधम्-द्विप्रकारकं भवति-संबद्धम् , तथा तदितरत् तद्भिन्नम् असम्बद्धम् ।
___अयं भावः-अचित्ते द्रव्ये यो गन्धस्तिष्ठति सोऽचित्तद्रव्यप्रतिष्ठितो गंधो यथा शुष्कचन्दनकाष्ठादौ, अन्यत्र वा तैलादौ वर्तमानः, तस्य गन्धस्याऽऽघ्राणं द्विप्रकारकम् यथा-नासाग्रसंबद्धस्य नासाग्राऽसंबद्धस्य च, अथवा चन्दनकाष्ठादिस्थितस्य, ततः पृथक्कृतस्य तैलनिर्यासादिरूपस्य वा आघाणम् । तद् यथा-कश्चिन्नासापुटसंलग्नं कृत्वा जिघ्रति, कश्चिन्नासातो दूरेऽवस्थित वायुद्वारा समागतं वा, अथवा संबद्धं चन्दनकाष्ठादिस्थितम् , असंबद्धं तत्पृथककृतं तैलनिर्यासादिरूपं वा यो यतिः-मुनिः जिघ्रति तस्याज्ञाभङ्गादिका दोषा भवन्ति । तथाहि-तीर्थकराज्ञां समुल्लङ्घयति, मिथ्यात्वं च प्राप्नोति तत्र संयमात्मविराधनासद्भावात् । तत्र संयमविराधनाइत्थम्-नासिकानिःसृतसुगन्धनिःश्वासेन वायुकायगतजीवानां विराधनं भवति । आत्मविराधनं यथा-तस्मिन् गन्धे यदि विषं भवेत् , तदा तदाघ्राणे आत्मविराधनमपि संभवति । यथा-सुगन्धित
व्यलोलुपाः समागताः सदियो दंशनं कुर्युः । सचित्तप्रतिष्ठितगन्धाऽऽत्राणं तु प्रथमोद्देशे एकादशे सूत्रे निषिद्धमेव, इति ।। सू० ९ ॥
सूत्रम्-जे भिक्खू पदमग्ग वा संकमंवा आलंबणं वा सयमेव करेइ करेंतं वा साइज्जइ ॥ सू० १०॥
छाया-यो भिक्षुः पदमार्ग वा संक्रमं वा आलम्बनं वा स्वयमेव करोति कुर्वन्तं वा स्वदते ॥ सू० १०॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः ‘पदमागं वा' पदमार्गपदमार्गः-पादस्थापनार्थ मृत्तिकादि प्रक्षिप्य गमनागमनाथं मार्गः क्रियते तम् , स सोपानमिति कथ्यते । पदमार्गादित्रयाणामपि पदानां विस्तरतोऽथ करिष्यति भाष्यकारः । 'संकमं वा' संक्रमं वा, संक्रमः कर्दमाद्युल्लङ्घनार्थ काष्ठेष्टिकादिस्थापनरूपस्तम् । 'आलंबणं वा' आलम्बनं वा, आल. म्बनम्-यदालम्ब्य कदमग दिकमुल्लङ्घयते तत् मुञ्जशणादिनिर्मितरज्जुरूपं, तत् 'सयमेव करेड' स्वयमेव करोति । अन्यतीर्थिकगृहस्थैः कारितपदमार्गादीनां निषेधः प्रथमोदे शे गतः, अतोऽत्र 'स्वयमेव' इति प्रोक्तम् , एवमग्रेऽपि बोध्यम् । 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ सू० १० ॥ भाष्यम् – पदमग्गो संकमो य, आलंबण तहेव य ।
तिविहंपि करे भिक्खू , आणाभंगाइ पावई ॥
શ્રી નિશીથ સૂત્ર