________________
२४
निशीथसूत्रे अवचूरिः-'अवलक्खण.' इत्यादि । अपलक्षणं यद्वन्धनं तस्मात् प्रमादो भवति, तस्मात् प्रमादात् असंयमः, तेन च असंयमेन आज्ञाभङ्गः जिनाज्ञा विराधना, तस्माच्च आज्ञाभङ्गात् साधुः संसारे पतति तस्य पुनः पुनः संसारपातो भवति । तस्मादविधिबन्धनस्य सार्धमासात्परतो धर्ता-धारयिता, धारयतोऽनुमोदयिता च प्रायश्चित्तभाग् भवतीति विमर्शः ॥ सू० ४८ ॥
एकबन्धनबद्धपात्रधारणे भिक्षुः कं के दोषं प्राप्नोतीत्याह भाष्यकार:भाष्यम्-आणाभंगाइयं दोसं, मिच्छत्तं च विराहणं ।
पावइ जम्हा य तम्हा, भिक्खू णेव धरेज्ज तं ॥ छाया-आज्ञाभङ्गादिकं दोषं, मिथ्यात्वं च विराधनम् ।।
प्राप्नोति यस्माच्च तस्माद् , भिक्षुर्नैव धरेत् तम् ।। अवचूरिः--'आणाभंगाइयं' इत्यादि । यस्मात्कारणात् एक-द्विक-त्रिकातिरेकबन्धनविशिष्टपात्रं धारयतस्तोर्थकाराणामाज्ञा भङ्गादिका दोषा भवन्ति, तथा अनवस्था, एकेन यदि धारितं तदाऽन्योऽपि तद्धारयिष्यति, तदन्योऽपि धारयिष्यति, एवं तदन्योऽपि, इत्थं क्रमेणाऽनवस्थादोषः समापतति । तेन मिथ्यात्वमपि प्राप्नोति, तीर्थकराणामाज्ञाभङ्गे मिथ्यात्वप्राप्तेः । तथा विरा. धनम् आत्मविराधनं संयमविराधनं च प्राप्नोति । तस्मात्कारणात् साधुरेकबन्धनाविधिबन्धनातिरेकबन्धनविशिष्टं पात्रं न धारयेदिति सिद्धान्तः ॥ सू० ४८॥
अथ भाष्यकारोऽलक्षणपात्राणि प्रदर्शयति-'हुंड' इत्यादि ।। भाष्यम्-हुंडं १ सबलं २ वायाइद्धं ३ दुपुयं ४ च खीलसंठाणं ५ ।
पउमुप्पलं ६ च सवणं ७ अलक्खणं दह ८ दुव्वणं ९॥ छाया- हुंडं १ शवलं २ वाताविद्धं ३ दुष्पुतं ४ च कीलसंस्थानम् ५।
पद्मोत्पलं ६ च सवर्ण ७, अलक्षणं दग्ध ८ दुर्वर्णम् ९ ।
अवचूरिः-'हुंड' यत् पात्रं समचतुरस्र न भवति तत् हुण्डम् अलक्षणम् १, शबलं तत् यस्य कृष्णादिरूपाणि, विचित्ररूपोपपन्नम् इत्यर्थः २ वाताविद्धं नाम -वातेन आविद्ध क्षिप्तम् उपचारात् स्फुटितमित्यर्थः ३, दुष्पुतं नाम-दुष्टाधोभागं यत् स्थापितमूर्ध्वमेव तिष्ठतिचालितं सत् पुनः प्रत्यावर्त्तते तत् तादृशं दुष्पुतम् ४ इति । कीलसंस्थानम्- यत् स्थापयत् सन्न तिष्ठति तत्कीलसंस्थानम् ५, पद्मोत्पलम्-यस्य पात्रस्याऽधोनाभिः पद्माकृतिः, उत्पलाकृतिः नोलामा वा तत्पनोत्पलम् ६, सवर्णम् कण्टकादिक्षतक्षतं यत्पात्रं तत् ७, तथा–दग्धम्अग्निना प्रज्वलितम् ८, दुवर्णम् - पञ्चवर्णोपेतमनिष्टवर्ण वा ९ । अथवा-प्रवालाङ्कुरसदृशं
શ્રી નિશીથ સૂત્ર