________________
चर्णिभाष्यावचूरिः उ० १ सू० ४९-५०
वस्त्रसन्धानप्रकरणम् २५ सुवर्णम् अन्यदुर्वर्णम्-अनिष्टमित्यर्थः । एतल्लक्षणयुक्तं पात्रमलक्षणं कथ्यते इति । तत्र कस्मिन् अलक्षणे सति तद्धारयितुः किमाकारको दोष आपधेत ? तत्रोच्यते-हुंडनामके लक्षणे चारित्रभेदः १, शबलनामकेऽलक्षणे चित्तविभ्रमः २, वाताविद्धनामकेऽलक्षणे साधोरुन्मादो भवति ३, दुष्पुत-कीलसंस्थाननामके लक्षणके गणे-चारित्रे च स्थानं न लभते ४।५। पद्मोत्पलनामकाल. क्षणे- अकुशलं शरीरपीडा भवति ६, सवर्णायलक्षणे उपकरणस्य ज्ञान-दर्शन-चारित्रस्य च विराधना भवति ७, दग्धे अन्तर्बहिर्वा मरणं भवति ८ । दुर्वर्णनामकाऽलक्षणविशिष्टपात्रधारणे ज्ञानस्यागमो न भवति ९, तस्मात्-अलक्षणयुक्तं पात्रं न धारयेत् । कीदृशं पात्रं केन वा क्रमेण कियन्तं वा कालं मार्गयितव्यम् ! तत्रोच्यते-प्रथमं तावत् चतुरो मासान् पर्यन्तं यथाकृतं नाम पात्रं केवलकाष्ठनिर्मितं, पूर्वकृतमुखं वाऽलाबूपात्रं मार्गयितव्यं किन्तु न परिकमितमिति । यदि चतुर्मासं यावदन्वेषणे कृतेऽपि तादृशं यथाकृतं पात्रं न लब्धं भवति, तदा-तदनन्तरं मासद्वयं यावत् अल्पपरिकर्मितमेव पात्रं मार्गयितव्यम् । यद्येतावता कालेनाऽपि तादृशमल्पपरिकर्मितं पात्रं लब्धं न भवेत्, तदा-द्वयर्धमासं यावत् बहुपरिकर्मितमपि पात्रं मार्गयेत् , यस्मात्-तदनन्तरं वर्षाकालः प्राप्तो भवति, वर्षाकाले च परिकर्म न भवति । यदि यादृशमागमे कथितं सलक्षणं पात्रम् तादृशं पात्रं न लभेत, तदा तावद् यदेव प्राप्तं तदेव पात्रमनुकर्षयितव्यमिति संक्षेपः ॥ सू०४८॥
इतः पूर्वसूत्रेषु-एक-द्विकादिथिग्गलं बन्धनं वा दर्शितम् , अधुना-प्रकृतसूत्रे वस्त्रे थिग्गलयोजनाप्रकारमाह- 'जे भिक्खू' इत्यादि ।
सूत्रम्-जे भिक्खू वत्थस्स एगं पडियाणियं देइ, देयंतं वा साइज्जइ ॥ सू० ४९॥
छाया-यो भिक्षुर्वस्त्रस्य एकं प्रत्यनीकं ददाति ददतं वा स्वदते ॥ सू० ४९॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'वस्थस्स' वस्त्रस्य, तत्रवासयति-आच्छादयति रक्षति शीतोष्णादिभ्यः शरीरमिति वस्त्रम्-प्रावरणक-चोलपट्टादिकम् , तस्य वस्त्रस्य, 'एगं पडियाणियं' एकं प्रत्यनीकम् अन्यजातीयवस्त्रसंभवं थिग्गलकम् कारणं विना तज्जातीयमेकं थिग्गलम्-अन्यजातीयवस्त्रस्य वा थिग्गलं ददाति, दापयति 'देयंतं वा साइज्जई' ददतं वा स्वदतेऽनुमोदते, स आज्ञाभङ्गादिकमात्मविराधनं संयमविराधनं च प्राप्नोति, अतः प्रायश्चित्तभाग् भवति ॥ सू० ४९॥
संप्रति सूत्रप्रतिपादितं वस्त्रं कतिप्रकारकं भवतीति जिज्ञासायामाह भाष्यकार:- 'पत्थं पंचविहं' इत्यादि ।
શ્રી નિશીથ સૂત્ર