________________
निशीथसूत्रे चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः 'सूई' सूचीम् 'अविहीए पच्चप्पिणइ' अविधिना-विधिमतिक्रम्य प्रत्यर्पयति दायकं प्रति ददाति ‘पच्चप्पिणतं वा साइज्जई' प्रत्यर्पयन्तं वा स्वदतेऽनुमोदते । अविधिना ददाति, ददतं वा प्रत्यनुमोदते स प्रायश्चित्तभाग्भवति ॥ ३६॥
अत्राह भाष्यकारःभाष्यम्-अविहिणा देमाणो य, दायगं पडि जो मुणी ।
धम्मस्स लहुया होज्जा, होज्जा जीवविराहणा ।। छाया-अविधिना ददानश्च-दायकं प्रति यो मुनिः ।
धर्मस्य लघुता भवेत् भवेज्जीवविराधना ।। अवचूरिः-'अविहिणा' इत्यादि । यो मुनिः सूच्यादिना स्वकार्य कृत्वा, तां सूची प्रत्यर्पयितुं दायकं-दातारं प्रति गत्वा-'नीयतामियं सूची' इत्युक्त्वा - अविधिना जानुदेशादूर्ध्वस्थितादेव स्वहस्तात्-ददत्-प्रत्यर्पयन् सन् वसतिं प्रतिनिवर्त्तते । तत्रैवं करणे धर्मस्य लघुता भवति, तथा-वायुकायादिजीवानां विराधना च भवति । एषोऽविधिः । अयं भावः-शोभनोऽयं विधिः यथा - स्वप्रयोजनार्थमेव याचेत, यद्वस्त्रादिकं संदधीत तदर्थमेव याचेत, यस्य साधोः कार्य तन्नाम्नैव याचेत, आत्मनोऽर्थाय-परस्यार्थाय तदुभयाय वा याचेत, यथाक कामस्तथैव यत्नो विधेय इति परमार्थः । विनीतः सन् पुरो भूमौ संस्थाप्य तमेवं वदेत्-भ्रातः ! तवेयंसूचि रिति ॥ सू० ३६ ॥
एवमेव--'पिप्पलगं' पिप्पलकं०, ३७, 'नहच्छेयणगं'-नखच्छेदनकं० ३८ । कण्णसोहणगं कर्णशोधनकं० ३९ । एषु त्रिष्वपि सूत्रेषु पूर्वोक्त एव विधिरविधिश्च ज्ञातव्यः ॥ सू० ३७-३९ ॥
सूत्रम्-जे भिक्खू लाउपायं वा दारुपायं वा मट्टियापायं वा अण्णउत्थिएण वा गारथिएण वा परिघट्टावेइ वा संठवेइ वा जमावेइ वा अलमप्पणा करणयाए सुहुममवि नो कप्पइ जाणमाणे सरमाणे अण्णमण्णस्स वियरइ वियरतं वा साइज्जइ ॥ सू० ४०॥
छाया-यो भिक्षुः अलाबूपात्रं वा दारुपात्रं वा मृत्तिकापात्रं वा, अन्ययूथिकेन वा गृहस्थेन वा परिघट्टयति वा संस्थापयति वा यमयति वा अलमात्मनः करणतया सूक्ष्ममपि नो कल्पते जानानः स्मरन् अन्याऽन्यस्य वितरति वितरन्तं वा स्वदते ॥सू०४०॥
શ્રી નિશીથ સૂત્ર