SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावरिः उ० १ सू० ३६-४० अविधिसूचीप्रत्यर्पण-पात्रपरिघट्टनादिनिषेधः १७ vvvvvvvvv. छाया-यो भिक्षुः प्रातिहारिकं कर्णशोधनकं याचित्वा, कर्णमलं निहरिष्यामीति दन्तमलं वा नखमलं वा निर्हरति, निर्हरन्तं वा स्वदते ॥ सू० ३५ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः 'पाडिहारियं' प्रातिहारिकम् 'कण्णसोहणगं' कर्णशोधनकम् 'जाइत्ता' याचित्वा 'कण्णमलं णीहरिस्सामित्ति' कर्णमलं निर्हरिष्यामीति कथयित्वाऽऽनीतेन तेन दन्तमलं वा स्वेच्छया नखमलं वा 'णीहरेइ' निर्हरति, निहारयति, 'णीहरंतं वा साइज्जइ' निर्हरन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभार भवतीति ॥ सू० ३५ ॥ अत्राह भाष्यकारःभाष्यम्-सीविसं वत्थमेएणं, वत्थं पायं च सिवइ । सिविस्सामि च पायं वा, वत्थगं खलु सिव्वइ । गिही सयं वा दणं, सुणित्ता विमणो हवे । खिसणं वा परस्सग्गे, कुज्जा अणायरं तहा ॥ छाया--सीविष्यामि वस्त्रमेतेन वस्त्रं पात्रं च सीव्यति । सिविष्यामि च पात्रं वा वस्त्रकं खलु सीव्यति ॥ गृही स्वयं वा दृष्ट्वा श्रुत्वा विमना भवेत् । निन्दनं वा परस्याग्रे कुर्यादनादरं तथा ॥ अवचूरिः-'सीविस्सं' इत्यादि । अहं भवत्प्रदत्तेन-एतेन सूच्यादिना वस्त्रं सीविष्यामि, इत्युक्त्वाऽऽनीतेन साधनेन सूचीसाधनेन वस्त्रं ततोऽन्यत् पात्रं च सीव्यति । एवमेव-पात्रं वा सीविष्यामीति कथयित्वाऽऽनीतेन तेन खलु वस्त्रकं सीव्यति । गृही एवं सूचीद्वारा पात्रादिकं सीव्यन्तमेनं साधु कदाचित्स्वयं दृष्ट्वा परमुखाद्वा श्रुत्वा 'विमणो' विमनाः मनोवकृतिमान् भवेत् वा-अथवा परस्य-साधोर्गृहस्थस्य वा अग्रे-समक्षं तस्य साधोर्निन्दनं तथा-अनादरं यदि कुर्यात् तदा मृषाभाषणेन द्वितीयमहाव्रतस्य भगकरणात् संयमात्परिभ्रष्टः सन् शासनलघुतां कारयेत्साधुः, अतः साधुभिरेवं न कर्त्तव्यम् ॥ सू० ३५ ॥ सूत्रम्-जे भिक्खू अविहीए सूई पञ्चप्पिणइ पच्चप्पिणंतं वा साइज्जइ ॥ सू० ३६॥ छाया -यो भिक्षुरविधिना सूची प्रत्यर्पयति, प्रत्यर्पयन्तं वा स्वदते ॥ सू० ३६ ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy