SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १ सू० ४१-४३ दण्डकादिपरिघट्टन-पात्रसन्धाननिषेधः १९ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः 'लाउपायं वा' अलाबूपात्रं वा-तूंबीपात्रं वा, 'दारुपायं वा' दारुपानं वा, तत्र-दारु-काष्ठं तत्संबन्धि पात्रं वा, 'मट्टियापायं वा' मृत्तिकापात्रं वा, एतानि त्रीणि अलाबूप्रभृतिपात्राणि 'अण्णउत्थिएण वा' अन्ययूथिकेन अन्यतीर्थिकेन वा, 'गारथिएण वा' गृहस्थेन वा 'परिघट्टावेइ वा' परिघट्टयति-निर्मापयति वा 'संठवेइ' संस्थापयति वा -पात्रमुखादीनां निर्माणं कारयति 'जमावेइ वा' यमयति वा-संयमयति वा पात्रैकदेशोच्चनीचप्रदेशं समीकारयति । अलं-पर्याप्तम् 'अप्पणो करणयाए' आत्मना करणतया स्वयं कर्तुं न शक्यते । 'मुहममवि' सूक्ष्ममल्पमपिः 'नो कप्पई' नो कल्पते । एवं स्वशक्तिं 'जाणमाणे' जानानः 'सरमाणे' स्वसामर्थ्य स्मरन् सन् वा 'अण्णमण्णस्स' अन्यान्यस्मै अन्यस्मै अन्यस्मै इत्यर्थः, तत्र-अन्यतीर्थिकाय गृहस्थाय वा 'वियरइ' वितरति समीकरणाद्यर्थाय पुनरग्रहणाय वा ददाति । 'वियरंतं वा साइज्जई' वितरन्तं ददतमन्यं वा स्वदतेऽनुमोदते इति । यदि कश्चित् श्रमणः तुम्बादिपात्रं स्फुटितं गृहस्थादिद्वारा संधापयति नवीनं वा निर्मापयति किंचिदपि विषमं समीकारयति सूक्ष्ममपि कार्य करोति-कारयति-कुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग्भवति । एतेषां करणेऽन्यद्वारा संपादने वा दाने वा षड्विधजोवनिकायानामुपमर्द संभवेन साधुभिस्तत्याज्यम् ॥ सू० ४० ॥ सूत्रम्-जे भिक्खू दंडयं वा लट्ठियं वा अवलेहणियं वा वेणुसूइयं वा अन्नउत्थिएण वा गारथिएण वा परिघट्टावेइ संठवेइ जमावेइ वा अलमप्पणो करणयाए सुहुममवि नो कप्पइ जाणमाणे सरमाणे अण्णमण्णस्स वियरइ वियरंतं वा साइज्जइ । सू० ४१ ॥ छाया-यो भिक्षुः दण्डकं वा यष्टिकां वा अवलेहनिकां वा-वेणुसूचिकां वा अन्ययूथिकेन वा गृहस्थेन वा परिघट्टयति संस्थापयति यमयति वा अलमात्मनः करणतया सूक्ष्ममपि नो कल्पते जानानः स्मरन् अन्याऽन्यस्मै वितरति वितरन्तं वा स्वदते । सू० ४१॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू यो भिक्षुः श्रमणः 'दंडयं वा' दण्डकं वा, तत्र-दण्डो गमनसहायको लोकप्रसिद्धः, 'लट्ठियं वा' यष्टिकां वा, तत्र-यष्टिर्वशादिनिर्मितो लघुदण्डविशेषः, तां वा । 'अवलेहणियं वा' अवलेहनिकां वा वर्षासमये चरणसंलग्नकर्दमप्रोञ्छनशलाकाविशेषः । 'वेणुसूइयं वा' वेणुसूचिकां वा, तत्र-वेणुवंशस्तन्मयौं सूची वंशशलाकामित्यर्थः । एतत्पूर्वोक्तं सर्व वस्तु 'अन्नउत्थिएण वा गारथिएण वा' अन्ययूथिकेनाऽन्यतीथिकेन वा गृहस्थेन वा 'परिघट्टावेइ' परिघट्टयति परिघट्टनं निर्मापणम् ततश्चाऽन्यद्वारा दण्डादि निर्मापयतीत्यर्थः । 'संठवेइ' શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy