SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ चूर्णी-भाष्यावचूरी टीका० उ० १ सू० २३-२८ अकुशलप्रतिसेवना १३ सूत्रम्-जे भिक्खू अणट्ठयाए णहच्छेयणं जायइ जायंतं वा साइज्जइ ॥ सू० २३॥ छाया-यो भिक्षुः अनर्थतया नखच्छेदन कं याचते, याचमानं वा स्वदते ॥ सू० २३ ॥ चूर्णी-'जे भिक्खू' इति । 'जे भिक्खू यो भिक्षुः-श्रमणः अणट्टयाए' अनर्थतया प्रयोजनं विनैव 'णहच्लेयणगं' नखच्छेदनकम् नखच्छेदनिकाम् --- "नहरनी" ति लोकप्रसिद्धाम् 'जायइ' याचते अत्यतीर्थिकेभ्यः श्रावकेभ्यो वा 'जायंत वा साइज्जई' याचमानमन्यं स्वदतेअनुमोदते स आज्ञाभंगानवस्थात्मविराधनासंयमविराधनादिदोषैः प्रायश्चित्तभाग् भवति ॥ सू० २३ ॥ सूत्रम्-जे भिक्खू अविहीए सूई जायइ, जायंतं वा साइज्जइ॥२४॥ छाया-यो भिक्षुः अविधिना सूची याचते याचमानं वा स्वदते ॥ सू० २४ ॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अविहिए' अविधिना 'सूई जायइ' सूची याचते, तत्र विधि;--स्वसमयप्रसिद्धो नियमः तं विना । अर्थात् मह्यं कार्यमुपस्थितं सीवनस्याऽतः सूची मे देहि, कार्य कृत्वा पुनरावर्तयिष्यामि---इति कथनमन्तरेणैव सूच्यायाचनम् अविधिना याचितं भवति । 'जायंतं वा साइज्जइ' याचमानं वा स्वदते । अर्थात्यः श्रमणः विधिमन्तरेणैव याचनां करोति-यश्च याचमानं तमनुमोदते, सोऽपि प्रायश्चित्तभाग भवतीति ॥ २४ ॥ भाष्यम्-काहं वत्थस्स संहाणं तिकिच्चा जे उ जायइ । करेइ अन्न संहाणं एसोऽविही उदाहिओ ॥ छाया-करिष्ये वस्त्रस्य संधानमिति कृत्वा यस्तु याचते । करोत्यन्यस्य संधानमेषोऽविधिरुदाहृतः ॥ अवचूरिः -- 'काहं' इत्यादि । कोऽपि साधुः कस्यचित् श्रावकादेर्गृहं गतवान् तत्र गत्वा सूची याचमानो वदति-भो देवानुप्रिय ! श्रावकः ! अहं वस्त्रस्य प्रावरणस्य संधानं करिष्ये इति कृत्वा-कथयित्वा सूची याचते । किंतु तया प्रावरणार्थ याच्यमानया सूच्या चोलपट्टादिकस्य संधानं करोति । एष अविधिरुदाहृतः कथितः । अनेन विधिना यो याचते याचमान वा स्वदते अनुमोदते, स भिक्षुर्दोषभागिति । एवं पिप्पलकादिसूत्रेष्वपि बोद्धयम् ॥ सू० २४ ॥ सूत्रम्-जे भिक्खू अविहीए पिप्पलगं जायइ, जायंतं वा साइज्जइ ॥ सू० २५॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy