________________
निशीथसूत्रे
छाया - यो भिक्षुः अविधिना पिप्पलकं याचते, याचमानं वा स्वदते ॥ सू० २५ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः साधुः अविधिना पिप्पलकंपिप्पलको नाम पात्रमुखादिकरणप्रयोजनकः किञ्चिद्वको हस्वक्षुरविशेषस्तम् याचते, याचमानं वा स्वदते अनुमोदयतीति पूर्ववत् ॥ सू० २५ ॥
१४
सूत्रम् - -जे भिक्खू अविहोए नहच्छेयणगं जायइ, जायंतं वा साइज्जइ ॥ सू० २६ ॥
छाया - यो भिक्षुरविधिना नखच्छेदनकं याचते याचमानं वा स्वदते || सू० २६ ।।
चूर्णी - 'जे भिक्खू इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः 'अविहीए' अविधिना, 'नहच्छेयणगं' नखच्छेदनकम् 'जायइ' याचते, अन्येन याचयति, 'जायंतं वा साइज्जइ' याचमानं वा स्वदतेऽनुमोदते स प्राग्वत् ॥ सू० २६ ॥
सूत्रम् - जे भिक्खू अविहीए कण्णसोहणगं जायइ, जायंतं वा साइज्जइ ॥ २७ ॥
छाया - यो भिक्षुरविधिना कर्णशोधनकं याचते, याचमानं वा स्वदते सू० ||२७|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अविहीए' अविधिना ' कण्हसोहणगं' कर्णशोधनकम् 'जायइ' याचते 'जायंतं वा साइज्जइ' याचमानं वा स्वदतेऽनुमोदते-- इति पूर्ववत् ॥ सू० २७ ॥
सूत्रम् - जे भिक्खू अप्पणा एगस्स अट्ठाए सूई जाइत्ता अण्णमण्णस्स अणुप्पएइ, अणुप्पयंतं वा साइज्जइ ॥ सू० २८ ॥
छाया -- यो भिक्षुरात्मनः एकस्यार्थाय सूचीं याचित्वा अन्योन्यस्याऽनुप्रददाति, अनुप्रददतं वा स्वदते ॥ सू० २८ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् श्रमणः 'अप्पणी एगस्स अट्टाए' आत्मन एकस्यार्थाय तत्रात्मनः स्वस्याऽर्थाय प्रयोजनाय । 'सूई जाइत्तए' सूचीं याचित्वा कश्चित् श्रमणः गृहस्थकुलं गतो भवेत् तत्र गत्वा मम वस्त्रसंधानाय सूच्याः आवश्यकतेति कथयित्वा सूची याचमानः सूचीं प्राप्नोति प्राप्य च स्ववसतिमागत्य । 'अण्णमण्णस्स' अन्योऽन्यस्य -- अन्यस्मै साधवे 'अणुप्पएइ' अनुप्रददाति, अनुप्रदापयति । 'अणुप्पयेतं व, साइज्जइ' अनुप्रददतं वा स्वदतेऽनुमोदते, स प्रायश्चित्तभागिति संक्षेपः ॥|| सू० २८||
"
શ્રી નિશીથ સૂત્ર