________________
निशीथसूत्रे अन्यसंयतार्थ याचकं याचमानं वाऽनुमोदयतो भिक्षुकस्य के दोषा भवन्ति तत्राह भाष्यकार:--'अकारणं' इत्यादि । भाष्यम्-अकारणं जायमाणे भिक्खू सूई च पोसगो।
___आणाणवहामिच्छत्तं तहेव य विराहणं ॥ छाया-अकारणं याचमानो भिक्षुः सूची च पोषकः ।
आज्ञानवस्थामिथ्यात्वं तथैव च विराधनम् ॥ अवचूरी-'अकारणं' इति । भिक्षुर्निरवद्यभिक्षवृत्तिमान् श्रमणः सूच्याः याचनां कुर्वन् सूची याचमानस्य पोषकोऽनुमोदको वा साधुः आज्ञाभंगदोषान् प्राप्नोति । न खल्वेतादृशी तीर्थकरस्याज्ञा, यत्--साधुभिः अन्यार्थ सूच्याः याचनां करोतु । ततश्च तथाकुर्वन् श्रमणस्तीर्थकराज्ञाभंगं प्राप्नोति, तथाऽनवस्थादोषोऽपि प्रसज्जते तथा कर्तुः एवं मिथ्यात्वदोषं चापि प्राप्नोति तथैव विराधनम् आत्मविराधनां--संयमविराधनां--भाषासमितिविराधनां च प्राप्नोति ॥ सू० २०॥
सूत्रम्-जे भिक्खू अणट्ठयाए पिप्पलगं जायइ, जायंतं वा साइज्जइ ॥ सू० २१ ॥
छाया-यो भिक्षुः अनर्थतया पिप्पलकं याचते याचमानं वा स्वदते ॥ सू० २१॥
चूर्णी-'जे भिक्खू' इति । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'अणठ्याए' अनर्थतयानिष्प्रयोजनम् , कारणं विनेत्यर्थः । 'पिप्पलगं' पिप्पलकम्-'कैंची' ति लोकप्रसिद्धम् 'जायई' याचतेअन्यतीर्थिकादिभ्यः । 'जायंतं वा साइज्जइ' याचमानं वा स्वदते-अनुमोदते स प्रायश्चित्तभाग भवतीति ॥ सू० २१॥
सूत्रम्-जे भिक्खू अणट्ठयाए कण्हसोहणं जायइ, जायंत वा साइज्जइ ॥ सू० २२ ॥
छाया-यो भिक्षुरनर्थतया कर्णशोधनकं याचते, याचमानं वा स्वदते ॥ सू० २२ ॥
चूर्णी-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'अणट्ठयाए' अनर्थतया, तत्रार्थः प्रयोजनम्-न-अर्थः इत्यनर्थः प्रयोजनाभावः । तमुद्दिश्य--कण्णसोहणं' कर्णशोधनकम् , कर्णमलमपहर्तु, साधनविशेषलक्षणम् । 'जायई' याचते, अन्यतीर्थिकेभ्यो गृहस्थेभ्यो वा । जायंत वा साइज्जई' याचमानं वा स्वदते-अनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० २२ ॥
શ્રી નિશીથ સૂત્ર