________________
चूर्णी-भाष्यावचूरी टीका० उ० १ सू० १८-२२
अकुशलप्रतिसेवना ११ चूर्णी-'जे भिक्खू' इति । 'जे भिक्खू' यो भिक्षुः साधुः 'पिप्पलगस्स' पिप्पलकस्य- कतरिकायाः कैंची' तिलोकप्रसिद्धस्य । 'उत्तरकरणं' उत्तरकरणम् पिप्पलकस्य तीक्ष्णादिसंपादनम् अपरभागस्य लोहकारगृहं गत्वा ऋजुतादिसंपादनम् । तथा--षोडशसूत्रोक्तं सर्वमिहोत्तरकरणशब्देन ज्ञातव्यमिति संक्षेपः ॥ सू० १७ ॥
सूत्रम्-जे भिक्खू नहच्छेयगस्स उत्तरकरणं अन्नउत्थिएण वा-गारथिएण वा करेइ करेंतं वा साइज्जइ॥ सू० १८॥
छाया-यो भिक्षुः नखच्छेदकस्य उत्तरकरणम् अन्ययूथिकेन वा गृहस्थेन वा करोति, कुर्वन्तं वा स्वदते ॥ सू० १८ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'नहच्छेयगस्स' नख छेदकस्य, नख पादर्ज, हस्तजं वा छिनत्ति येन स नखच्छेदकः 'नहरनी' ति लोकप्रसिद्धः तस्य नखच्छेदकस्य--उद्धरकरणं करोति कुर्वन्तं वा स्वदते, पूर्वसूत्रवत् दोषभाग्भवतीति ज्ञातव्यम् ॥ सू० १८ ॥
सूत्रम्-जे भिक्खू कण्णसोहणगस्स उत्तरकरणं अन्न उत्थिएण वा गारथिएण वा करेइ, करेंतं वा साइज्जइ ॥ १९॥
__ छाया--यो भिक्षुः कर्णशोधनकस्य उत्तरकरणमन्ययूथिकेन वा गृहस्थेन वा करोति कुर्वन्तं वा स्वदते ॥ सू० १९ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'कण्णसोहणगस्स' कर्णशोधनकस्य, येन साधनविशेषेण कर्णयोरन्तर्वर्तिमलमपनीयते-तत्कर्णशोधनकम् , एतादृशस्य कर्णशोधनकस्य । उत्तरकरणं नाम--केनचित् शस्त्रविशेषेण तीक्ष्णीकरणं, त्रुटितस्य लोहकारगृहे संधापनादिकरणम् । एतादृशमुत्तरकरण पूर्ववत् ज्ञेयम् ॥ सू० १९॥ सूत्रम्-जे भिक्खू अण्णट्ठयाए सूई जायइ जायंतं वा साइज्जइ ॥२०॥
छाया--यो भिक्षुरनथतया सूची याचते याचमानं वा स्वदते ॥ सू० २०॥
चर्णी-'जे भिक्ख' इत्यादि । 'जे भिक्ख' यो भिक्षुः 'अण्णयाए' अनर्थतया प्रयोजनं विना, अन्यतीर्थिकेभ्यः श्रावकेभ्यो वा 'सूई जायइ' सूची याचते कारणमन्तरेणैव सूचीयाचनां कुरुते । अथवा -'जायंतं वा साइज्जइ याचमानमन्यं स्वदते अनुमोदते । यो भिक्षुः कारणमन्तरेणैव श्रावकादिभ्यः सूची स्वयं याचते-प्रार्थयति सदोषभागू भवतीति ॥सू०२०॥
શ્રી નિશીથ સૂત્ર