________________
सुन्दरबोधिनी टीका जम्बूवर्णन सुधर्मणोऽनगारस्य अदूरसामन्ते-दूर-विप्रकर्षः, सामन्तं = समीपं तयोरभावोऽदूरसामन्तं तस्मिन् नातिदूरे नातिनिकटे, उचिते देशे इत्यर्थः । 'उटुंजाणू' इति-ऊर्ध्वजानुः-ऊधै जानुनी यस्य स तथा, जाव-(यावत् )-शब्देन 'अहोसिरे, कयंजलिपुडे, उक्कुडासणे, झाणकोट्ठोवगए, संजमेण तवसा अप्पाणं भावमाणे' इत्येषां सङ्ग्रहः । 'अहोसिरे' इति-अधःशिराः नतमस्तकः, इतस्ततश्चक्षुर्व्यापारं निवर्त्य नियमितभूमिभागनिहितदृष्टिरित्यर्थः । 'कयंजलिपुडे' इति कृताञ्जलिपुटः मस्तकन्यस्तसम्पुटीकृतहस्तः, 'उकुडासणे' इतिउत्कुटासनः उत्कुटं = भूमावलग्नपुतम् आसनं यस्य स तथोक्तः भूप्रदेशास्पृष्टपुततयोपविष्ट इत्यर्थः । ध्यानकोष्ठोपगतः-ध्यायते-चिन्त्यतेऽनेनेति ध्यानम् , एकस्मिन् वस्तुनि तदेकाग्रतया चित्तस्यावस्थापनमित्यर्थः, ध्यानं कोष्ठ इव ध्यानकोष्ठस्तमुपगतः, यथा कोष्ठगतं धान्यं विकीर्णं न भवति तथैव ध्यानत इन्द्रियान्तःकरणवृत्तयो बहिर्न यान्तीति भावः, नियन्त्रितचित्तवृत्तिमानित्यर्थः । 'संजमेण'इति-संयमेन सप्तदशविधेन, 'तवसे'ति-तपसा-द्वादशविधेन आत्मानं भावयन् विहरति-तिष्ठति, इति ॥४॥
भण्डार श्री जम्बू अनगार श्री आर्यसुधर्मा स्वामी के पास उर्ध्वजानु किये हुए, इधर उधर न देखते हुए, दोनों हाथ जोडकर मस्तक झुकाये, उक्कुडासनसे बैठे हुए ध्यानरूपी कोठेमें स्थित, अर्थात् चित्तवृत्तिको एकाग्र करके तप और संयमसे आत्माको भावित करते हुए बैठे थे ॥ ४ ॥
ભંડાર શ્રી જંબૂ સ્વામીએ શ્રી આર્યસુધર્મા સ્વામીની પાસે ઊર્ધજાનું રહીને આજુ-બાજુએ નજર ન નાખતાં બે હાથ જોડીને માથું નમાવી ઉકુડાસને બેઠેલા મનને ધ્યાનરૂપી કઠામાં સ્થિર રાખીને અર્થાત ચિત્તવૃત્તિને એકાગ્ર કરીને તપ તથા સંયમથી આત્માને ભાવિત કરતા થકા બેઠા હતા જે ૪
શ્રી નિરયાવલિકા સૂત્ર