SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू० २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ३६९ कुलं वा योजयति, उपकुलं वा योजयति, कुलोपकुलं वा योजयति, कुलं युञ्जन् धनिष्ठा नक्षत्रं युनक्ति, उपकुलं युञ्जन् श्रवणनक्षत्रं युनक्ति, कुलोपकुलं युञ्जन् अभिजिन्नक्षत्रं युनक्ति, श्राविष्ठ पूर्णिमां खलु कुलं वा युनक्ति, यावत् कुलोपकुलं युनक्ति, कुलेन वा युक्ता उपकुलेन वा युक्ता कुलोपकुलेन वा युक्ता श्राविष्ठी पूर्णिमा युक्तेति वक्तव्यं स्यात् । प्रौष्ठपदीं खलु भदन्त ! पूर्णिमां किं कुलं युनक्ति ३ पृच्छा' गौतम ! कुलं वा उपकुलं वा कुलोपकुलं वा युनक्ति, कुलं युञ्जद् उत्तरभाद्रपदा नक्षत्रं युनक्ति उपकुलं युञ्जत् पूर्वभाद्रपद नक्षत्रं युनक्ति, कुलोपकुलं युञ्जत् शतभिषग्नक्षत्रं युनक्ति, प्रौष्टपदीं खलु पूर्णिमां कुलं वा युनक्ति, यावत् कुलोपकुलं वा युनक्ति, कुलेन वा युक्ता यावत् कुलोपकुलेन वा युक्ता प्रोष्ठपदी पूर्णिमासी युक्तेति वक्तव्यं स्यात् । आश्विनीं खलु भदन्त ! पृच्छा, गौतम ! कुलं वा युनक्ति, उपकुल वा युनक्ति नो लभते कुलोपकुलम् कुलं युञ्जन अश्विनी नक्षत्र युनक्ति उपकुलं युञ्जत् रेवती नक्षत्र युनक्ति, आश्चयुन पूर्णिमां कुलं वा युनक्ति, उपकुलं वा युनक्ति, कुलेन वा युक्ता उपकुलेन वा युक्ता आश्वयुजीपूर्णिमा युक्तेति वक्तव्यं स्यात् । कार्त्तिकीं खलु भदन्त ! पूर्णिमां किं कुलं ३ पृच्छा, गौतम ! कुलं वा युनक्ति, उपकुलं वायुनक्ति नो कुलोपकुलं युनक्ति कुलं युञ्जत कृत्तिका नक्षत्रं युनक्ति, उपकुलं युञ्जत भरणी कार्तिक खलु या वक्तव्वं स्यात्. मार्गशीर्षी खलु भदन्त ! पूर्णिमा यावद् वक्तव्यं स्यात् । एवं शेषिका अपि यावदाषाढीम् पौषीं ज्येष्ठा मूलीं च कुलं वा युनक्ति कुलोपकुलं वा, शेषिकाणां कुलं वा उपकुलं वा कुलोपकुलं न भण्यते । श्राविष्ठीं खलु भदन्त ! अमाकति नक्षत्राणि युञ्जन्ति ? गौतम ! द्वे नक्षत्रे युक्तः तद्यथा - अश्लेषा च मघा च । पौष्ठपदी खलु भदन्त ! अमावास्या कति नक्षत्राणि युञ्जन्ति ? गौतम ! द्वे पूर्वा फाल्गुनी उत्तरा फाल्गुनी च । आश्वयुजीं खलु भदन्त ! द्वे हस्तश्चित्रा च कार्त्तिकीं खलु द्वे स्वाती विशाखाच, मार्गशीर्षी खलु त्रीणि अनुराधाज्येष्ठा मूलय, पोष्ठीं खलु द्वे पूर्वा पाढा उत्तराषाढा च माधी खलु त्रीणि अभिजित् श्रवणो धनिष्ठा च, फाल्गुनीं खलु त्रीणि शतभिषक् पूर्वभाद्रपदा उत्तर भाद्रपदा, चैत्रीं खलु द्वे रेवती अश्विनी च, वैशाखीं खलु द्वे भरणी कृत्तिका च, ज्येष्ठामुलीं खलु द्वे रोहिणी मृगशिरश्च, आषाढीं खलु त्रीणि आर्द्रा पुनर्वसू पुण्यः । श्राविष्ठीं खलु भदन्त ! अमावास्यां किं कुलं युनक्ति, उपकुलं युनक्तिकुलोपकुलं युनक्ति ? गौतम ! कुलं वा युनक्ति उपकुलं वा युनक्ति, नो लभते कुलोपकुलम् कुलं युञ्जत् मधानक्षत्रं युनक्ति, उपकुलं वा युञ्जत् अश्लेषा नक्षत्रं युनक्ति श्राविष्ठि खलु अमावास्या कुलं वायुनक्ति उपकुलं वा युनक्ति, कुलेन वा युक्ता उपकुलेन वा युक्ता श्राविष्ठी अमावास्या युक्तेति वक्तव्यं स्यात् । प्रोष्ठपद खलु भदन्त ! अमावास्यां तदेव द्वे युङ्क्तः; उपकुलं वा युक्तः कुलं युञ्जत् उत्तराफाल्गुनी नक्षत्रं युनक्ति, उपकुलं युञ्जत् उत्तराफाल्गुनी नक्षत्रं युनक्ति प्रौष्टपदीं खलु अमावास्यां यावद्वक्तव्यं स्यात् । मार्गशीर्षी खलु तदेव, कुलं मूलं नक्षत्रं युनक्ति, उपकुलं युञ्जत् ज्येष्ठा नक्षत्रं युनक्ति, कुलोपकुलं युञ्जत् अनुराधा यावत् ज० ४७ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy