SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २५८ जम्बूद्वीपप्रज्ञप्तिसूत्रे आत्मरक्षाणाम् ।२। जम्ब्वः खलु त्रिभिः शतिकैः वनषण्डैः सर्वतः समन्तात् संपरिक्षिप्ताः, जम्बाः खलु पौरस्त्येन पश्चाशतं योजनानि प्रथमं वनपण्डम् अवगाह्य अत्र खलु भवनं प्रज्ञसम्, क्रोशमायामेन स एव वर्णकः शयनीयं च, एवं शेषास्वपि दिक्षु भवनानि, जम्ब्वाः खलु उत्तरपौरस्त्यन प्रथमं वनषण्डं पञ्चाशतं योजनानि अवगाह्य अत्र खलु चतस्रः पुष्करिण्यः प्रज्ञप्ताः तद्यथा-पद्मा१ पद्मप्रभा २ कुमुदा ३ कुमुदप्रभा ४. ताः खलु क्रोशमाया मेन अर्द्धकोशं विष्कम्भेण पञ्चधनुःशतानि उद्वेधेन, वर्णकः, तासां खलु मध्ये प्रासादावतंसकाः क्रोशमायामेन, अर्द्धक्रोशं विष्कम्भेण, देशानं क्रोशमूर्ध्वमुच्चत्वेन, वर्णकः सिंहासनानि संपरिवाराणि, एवं शेषासु विदिक्षु, गाथा-पदमा पद्मप्रभा चैव, कुमुदा कुमुदप्रभा । उत्पलगुल्मानलिना उत्पलोज्ज्वला ।। भृङ्गा भृङ्गप्रभा चैव, अञ्जना कज्जलप्रभा। श्रीकान्ता श्रीमहिता श्रीचन्द्रा चैव श्रीनिलया ।। ___ जम्बाः खलु पौरस्त्यस्य भवनस्य उत्तरेण उत्तरपौरस्त्यस्य प्रासादावतंसकस्य दक्षिणेन अत्र खलु कूटं प्रज्ञप्तम्, अष्ट योजनानि ऊर्ध्व मुच्चत्वेन द्वे योजने उद्वेधेन मूले अष्ट योजनानि आयामविष्कम्भेण बहुमध्यदेशभागः षड्योजनानि आयामविष्कम्भेण उपरि चखारि योजनानि आयामविष्कम्भेण-पञ्चविंशतिमष्टादश द्वादशैव मूले च मध्ये उपरि च । सवि शेषाणि परिरयः कूटस्यास्य बोद्धव्यः ।। मूले विस्तीर्ण मध्ये संक्षिप्तमुपरि तनुकम् सर्व कनकमयम् अच्छम् वेदिकावनषण्डवर्णकः, एवं शेषाण्यपि कूटानि इति । ____ जम्ब्वाः खलु सुदर्शनायाः द्वादश नामधेयानि प्रज्ञप्तानि, तद्यथा-सुदर्शना १ अमोघा २ च सुप्रबुद्धा ३ यशोधरा ४ । विदेह जम्बुः ५ सौमनस्या ६ नियता ७ नित्यमण्डिता ८।१। सुभद्रा च ९ विशाला च १० सुजाता ११ सुमना १२ अपि च । सुदर्शनायाः जम्ब्वाः नामधेयानि द्वादश ॥२॥ जम्ब्वाः खलु अष्टाष्टमङ्गलकानि०, केनार्थेन भदन्त ! एवमुच्यते जम्बूः सुदर्शना २? गौतम ! जम्चां खलु सुदर्शनायामनाहतो नाम जम्बूद्वीपाधिपतिः परिवसति महर्द्धिकः, स खलु तत्र चतसृणां सामानिकसाहस्रीणां यावद् आत्मरक्ष देवसाहस्रीणां, जम्बूद्वीपस्य खलु द्वीपस्य जम्ब्वाः सुदर्शनायाः अनादृतायाः राजधान्या अन्येषां च बहूनां देवानां च देवीनां च यावद् विहरति, सा तेनार्थेन गौतम ! एवमुच्यते अदुत्तरं च गौतम ! जम्बूसुदर्शना यावद् अभूत च ३ ध्रुवा नियता शाश्वती अक्षया यावद् अवस्थिता । क्व खल भदन्त ! अनादृतस्य देवस्य अनाहता नाम राजधानी प्रज्ञप्ता ?, गौतम ! जम्बूद्वीपे मन्दरस्य पर्वतस्य उत्तरेण यदेव पूर्ववणितं यमिका प्रमाणं तदेव नेतव्यम्, उपपातोऽभिषेकश्च निरवशेप इति ॥सू०२३॥ ___ अब जिन के नामवाला यह जम्बूद्वीप कहा है वह सुदर्शनानामवाली जम्बू का कथन करने की विवक्षा से उसका अधिष्ठान कहते हैं હવે જેના નામથી આ જંબુદ્વીપ કહેલ છે તે સુદર્શના નામવાળા જાંબુનું કથન કરવાની વિવક્ષાથી તેનું અધિષ્ઠાન કહે છે, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy