________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २३ सुदर्शनाजम्बूवर्णनम्
२५७ पुत्ववणियं जमिगापमाणं तं चेव णेयव्वं, जाव उववाओ अभिसेओ य निरवसेसोत्ति ॥सू०२३॥
छाया-क्व खलु उत्तरकुरुषु २ जम्बूपीठं नाम पीठं प्रज्ञप्तम् ?, गौतम ! नीलवतो वर्ष धरपर्वतस्य दक्षिणेन मन्दरस्य उत्तरेण माल्यवतो वक्षस्कारपर्वतस्य पश्चिमेन सीताया महानद्याः पौरस्त्ये कूले अत्र खलु उत्तरकुरुषु कुरुषु जम्बूपीठं नाम पीठं प्रज्ञप्तम्, पञ्च योजनशतानि आयामविष्कम्भेण, पञ्चदश एकाशीतानि योजनशतानि किञ्चिद्विशेषाधिकानि परिक्षेपेण, बहुमध्यदेशभागे द्वादश योजनानि बाहल्येन तदनन्तरं च खलु मात्रया २ प्रदेशपरिहान्या २ सर्वेभ्यः खलु चरमपर्यन्तेषु द्वे द्वे गव्यू ते बाहल्येन सर्वजम्बूनदमयम् अच्छम् । तद् एकया पद्मवरवेदिकया एकेन च वनषण्डेन सर्वतः समन्तान् संपरिक्षिप्तम्, द्वयोरपि वर्णकः,
तस्य खलु जम्बूपीठस्य चतुर्दिशि एतानि चत्वारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, वर्णकः यावत् तोरणानि, तस्य खलु जम्बूपीठस्य बहुमध्यदेशभागः, अत्र खलु मणिपीठिका प्रज्ञप्ता, अष्टयोजनानि आयामविष्कम्भेण चत्वारि योजनानि बाहल्येन, तस्याः खलु मणिपीठिकाया उपरि अत्र खलु जम्बूसुदर्शना प्रज्ञप्ता, अष्टयोजनानि ऊर्ध्वमुच्चत्वेन अर्द्धयोजनमुद्वेधेन, तस्याः खलु स्कन्धः द्वे योजने ऊर्ध्वमुच्चत्वेन अर्द्धयोजनं बाहल्येन, तस्याः खलु शाला षड्योजनानि ऊध्वमुच्चत्वेन बहुमध्यदेशभागे अष्ट योजनानि आयामविष्कम्भेण, सातिरेकाणि अष्टयोजनानि सर्वाग्रेण, तस्याः खलु अयमेतद्रूपो वर्णावासः प्रज्ञप्त:-बजमयमूला रजतसुप्रतिष्ठतविडिमा यावत् अधिकमनोनिवृतिकरी पासादीया दर्शनीया । जम्ब्बाः खलु सुदर्शनायाः चतुर्दिशि चतस्रः शालाः प्रज्ञप्ताः, तासां खलु शालानां बहुमध्यदेशभागः, अत्र खलु सिद्धायतनं प्रज्ञसम, क्रोशमायामेन अक्रोशं विष्कम्भेण देशोनकं क्रोशमूर्ध्वमुच्च. त्वेन अनेकस्तम्प्रशतसन्निविष्टं यावद द्वाराणि पश्चशतानि ऊर्ध्वमुच्चत्वेन यावद् वनमाला: मणिपीठिका पञ्च धनुःशतानि आयामविष्कम्भेण अर्द्धतृतीयानि धनुः शतानि बाहल्येन, तस्याः खलु मणिपाठिकाया उपरि देवच्छन्दकं पञ्च धन:शतानि आयामविष्कम्भेण सातिरेकाणि पश्च धनुःशतानि ऊर्ध्वमुच्चत्वेन, जिनप्रतिमावर्णको नेतव्य इति ।।
तत्र खलु या सा पौरस्त्या शाला अत्र खलु भवन प्रज्ञप्तम्, क्रोशमायामेन एवमेव नवरमत्र शयनीयं शेषासु प्रासादवतंसकाः सिंहासनानि च सपरिवाराणोति । जम्बूः खलु द्वादशभिः पद्मवरवेदिकाभिः सर्वतः समन्तात् सम्परिक्षिप्ता, वेदिकानां वणकः, जम्बूः खलु अन्येन अष्टशतेन जम्बूनां तदर्थोच्चत्वानां सर्वतः समन्तात् संपरिक्षिप्ता, तस्याः खलु वर्णका, ताः खलु जम्बः षभिः पद्मवरवेदिकाभिः संपरिक्षिप्ताः, जम्ब्वाः खलु सुदर्शनायाः उत्तरपौरस्त्येन उत्तरेण उत्तरपश्चिमेन अत्र खलु अनादृतस्य देवस्य चत्तमृणां सामानिकसाहस्रीणां चतस्रो जम्बूसाहस्यः प्रज्ञप्ताः तस्याः खलु पौरस्त्येन चतसृणामग्रमहिषीणां चतस्रो जम्ब्वः प्रज्ञप्ताः-दक्षिणपौरस्त्ये दक्षिणेन तथा अपरदक्षिणेन च । अष्ट दश द्वादशैव च भवन्ति जम्बूसहस्राणि ।१। अनीकाधिपानां पश्चिमेन सप्तैव भवन्ति जम्व्वः । षोडशसाहस्यश्चतुर्दिशि
ज० ३३ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર