SearchBrowseAboutContactDonate
Page Preview
Page 944
Loading...
Download File
Download File
Page Text
________________ ९३२ ____जम्बूद्वीपप्रज्ञप्तिसूत्रे णिसीइत्ता सोलसदेवसहस्से सकारेइ सम्माणेइ सक्कारिता सम्माणित्ता पडिविसज्जेइ पडिविसज्जिता बत्तीसं रायवर सहस्सा सक्कारेइ सम्माणेइ सक्कारिता सम्माणित्ता सेणावइरयणं सकारेइ सम्माणेइ सकारिता सम्माणित्ता जाव पुरोहियरयणं सक्कारेइ सम्माणेइ सक्कारित्ता सम्माणित्ता एवं तिण्णि सढे सुक्यारसए अट्ठारस सेणिप्पसेणीओ सकारेइ सम्माणेइ सक्कारिता सम्मणित्ता अण्णे य बहवे राइसर तलवर जाव सत्थवाहप्पभिइओ सक्कारेइ सम्माणेइ सक्कारिता सम्माणित्ता पडिपिसज्जेइ पडिविसज्जित्ता उप्पिंपासायवरगए जाव विहरइ ॥सू०३१॥ छाया-ततः खलु स भरतो राजा आभियोग्यान देवान् शब्दयति शब्दयित्वा एवं अवादीक्षिप्रमेव भो देवानुप्रिया ! मम महार्थम् महाघम् महार्हम् महाराज्याभिषेकमुपस्थापयत। ततः खलु ते आभियोग्या देवाः भरतेन राज्ञा एवमुक्ताः सन्तः हृष्टतुष्ट चित्त यावत् उत्तरपौरस्त्यं दिग्भागम् अपकामन्ति अपक्रम्य वैक्रियसमुद्घातेन समवघ्नन्ति, एवं यथा विजयस्य तथा इत्थर्माप यावत् पण्डकवने एकतो मिलन्ति एकतो मिलित्वा, यत्रैव दक्षिणा भारतवर्षवर्ष यत्रैव विनीता राजधानी तत्रैव उपागच्छन्ति उपागत्य विनीतां राजधानीमनुप्रदक्षिणी कुर्वन्तः अनुप्रदक्षिणी कुर्वन्तः यत्रैव अभिषेकमंडपो यत्रैव भरतोराजा तत्रैव उपागच्छन्ति उपागत्य तत् महाथ महाघ महाहं महाराज्याभिषेकम् उपस्थापयन्ति, ततः खलु तं भरतं राजानं द्वात्रिंशदाजसहस्राणि शोभने तिथिकरणदिवसनक्षत्रमुहूर्ते उत्तरप्रौष्टपदा विजये तैः स्वाभाविकैश्च उत्तरवैक्रियैश्च वरकमलप्रतिष्ठानैः सुरभिवरवारिप्रतिपूर्णैः यावत् म. हता महता राज्याभिषेकेण अभिषिञ्चन्ति अभिषेको यथा विजयस्य, अभिषिच्य प्रत्येकं प्रत्येक यावत् अञ्जलिं कृत्वा ताभिरिष्टाभिः यथा प्रविशतो भणिता यावत् विरह इति कृत्वा जय जय शब्दं प्रयुञ्जन्ति | ततः खलु तं भरतं राजानं सेनापतिरत्नं यावत् पुरोहितरत्नम् त्रीणि च षष्ठानि सूपशतानि अष्टादश श्रेणिप्रश्रेणयः अन्ये च बहवो यावत् सार्थवाहप्रभृतयः एवमेव अभिषिञ्चन्ति तैः वरकमलप्रतिष्ठानैः तथैव यावत् अभिष्टवन्ति च षोडशदेवस हस्राणि एवमेव नवरं पक्ष्मसुकुमारया योवत् मुकुट पिनह्यन्ति। तदनन्तरं च खलु दर्दरमलयसुगन्धितैः गन्धैः गात्राणि अभ्युक्षन्ति दिव्यं च सुमनोदाम पिनह्यन्ति किं बहुना ? प्रन्धिमवेष्टिम यावत् वभूषितं कुर्वन्ति ततः खलु स भरतो राजा महता महता राज्याभिषेकेण अभिषिक्तः समानः कौटुम्बिक पुरुषान् शब्दयति शब्दयित्वा एवम् अवादीत्-क्षिप्रमेव भो देवानुप्रियाः ! हस्तिस्कन्धवरगताः विनीताया राजधान्याः शृङ्गाटक त्रिकचतुष्कचत्वर यावत् महापथपथेषु महता महता शब्देन उद्घोषयन्तः उच्छुल्कम् उत्करम् उत्कृष्टम् अदेयम् अमेयम् अभटप्रवेशम् अदण्डकुद डिमम् यावत् सपुरजनजानपदम् द्वादशसंवत्सरिकं प्रमोद घोषयत, घोषयित्वा मम एतामाज्ञप्तिकां प्रत्यर्पयत इति ततः खलु ते कौटम्बिकपुरुषाः જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy