SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ ९१२ जम्बूद्वीपप्रज्ञप्तिसूत्रे दिमागे अपकर्मान्ति अपक्रम्य वैक्रियसमुदघातेन समवनन्ति समवहत्य संख्येयानि योजनानि दण्डं निस्सृजन्ति तद्यथा रत्नानां यावत् रिष्टानां यथा बादरान् पुत्रान् परिशातयन्ति परिशात्य यथा सूक्ष्मान् पुद्गलान् पर्या ते पर्यादाय द्वितीयमपि वैक्रियसमुद्घातेन यावत् समबन्धन्ति समवहत्य बहुसमरमणीयं भूमिभागं विकुर्वन्ति तद्यथानामकः आलिग्यपुष्करः इति वा, तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यरेशभागे अत्र खलु एक महान्तम् अभिभषेकमण्डपं विकुर्वन्ति, अनेकस्तम्भरात पन्निविष्टं यावद् गन्धवत्तिभूतं प्रेक्षागृह मण्डपवर्णकः इति, तस्य खलु अभिषेकमण्डवस्य बहुमध्यदेशभागे अत्र खलु महान्तमेकम् अभिषेकपीठं त्रिकुर्वन्ति अच्छे श्लक्ष्णम्, तस्य खलु अभिषेकपीठस्य त्रिदिशं त्रीन् त्रिसोपानप्रतिरूपकान् विकु तेषां खलु त्रिसोपानप्रतिरूपकाणाम् अयमेतद्रूपो वर्ण व्याः प्रज्ञप्तः यावत् तोरणम् तस्य खलु अभिषेकपीठस्य बहुसमरमणीयो भूमिभागः प्रज्ञप्तः तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेश भागे अत्र खलु पकं सिंहासनं विकुर्वन्ति तस्य लु सिंहासनस्य अयमेतद्रूपो वर्णकव्यासः प्रज्ञप्तो यावदामवार्णकं समाप्तमिति । ततः खलु ते देवा अभिषेकमण्डपे विकुर्वन्ति विकुर्व्य यत्रैव भरतोराजा यावत् प्रत्यर्पयन्ति । ततः खलु स भरतो राजा अभियोग्यानां देवानामन्तिके पतम श्रुत्वा निशम्य हृष्टतुष्टयावत् पौषधशालातः प्रतिनिष्क्रामति प्रतिनिष्क्रम्य कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा पवनवादीत् क्षिप्रमेव भो देवानुप्रियाः ! अभिषेकयं हस्तिरत्नं प्रतिकल्पयत प्रतिकल्प्य हयगज यावत् सन्नाहयत पतामाज्ञतिकां प्रत्यर्पयत यावत्प्रत्यर्पयन्ति । ततः खलु स भरतो राजा मज्जनगृहम् अनुप्रविशति यावद् अञ्जन गिरिकूटसन्निभं गजपति नरपति: दूरूढः । ततः बलु तस्य भरतस्य राश अभिषेक्यं हस्तिरत्नं दुरूढस्य सतः इमानि अष्टावष्टौ मङ्गलकानि य एव गमो विनीतां प्रविशतः स एव निष्कामतोऽपि यावत् प्रतिबुध्यन् २ विनातां राजधानों मध्येमध्येन निर्गच्छति निर्गत्य यत्रैव विनीता या राजधान्या उत्तरपicस्त्ये दिग्भागे अभिषेकपण्डपस्तत्रैव उपागच्छति उपागत्य अभिषेकमण्डपद्वारे अभिषेक्यं हस्तिरत्नं स्थापयति स्थापयित्वा अभिषेकपात् हस्तिरत्नात् प्रत्यवरोहति पत्यवरुय स्त्रीरत्नेन द्वात्रशिता ऋतु कल्याणिकासहस्रः द्वात्रिंशता जनपदकल्याणिका सहसैः द्वात्रिंशता द्वात्रिंशद् बद्वै नटिसहस्रैः साद्ध संपरिवृतोऽभिषेकमण्डपम् अनुप्रविशति अनुप्रविश्व व अभिषेकपीठं तत्रैव उपागच्छति उपागत्य अभिषेकपीठमनुप्रदक्षिणी कुर्वन् अनुप्रदक्षिणी कुर्वन् पौरस्त्येनत्रि सोपानकप्रतिरूपकेन दूरोहति दुरूह्य यत्रैव सिंहासन तत्रैव उपागच्छति उपागत्य पौरस्त्याभिमुखः सन्निषण्णः इति । ततः खलु तस्य भरतस्य राज्ञा द्वात्रिराद्राजन स्राणि यत्रैव अभिषेकमण्डपः तत्रैव उपागच्छन्ति उपागत्य अभिषे कमण्डपम् अनुप्रविशन्ति अनुप्रविश्य अभिषेकपोठम् अनुप्रदक्षिणो कुर्वन्तः अनुप्रदक्षिणोकुर्वन्तः उत्तरेण त्रिलोपान प्रतिरूपकेण यत्रैव भरता राजा तत्रैव उपागच्छन्ति उपागत्य करतल यावद् अञ्जलिं कृत्वा भरतं राजानं जयेन विजयेन वर्द्धयन्ति वर्द्धयित्वा भरतस्य राम्रो नात्यासन्ने नातिदूरे शुश्रूषमाणाः यावत् पर्युपासते ततः खलु तस्य भरतस्य रामः सेनापतिरत्नं यावत्सार्थवाहप्रभृतयस्तेऽपि तथैव नवरं दाक्षिणात्येन त्रिसोपानप्रतिरूपकेण यावत पर्युपास्ते || सू० ३०॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy