SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ ८४८ जम्बूद्वीपप्रज्ञप्तिसूत्रे छाया-ततः खलु स भरतो राजा गङ्गायाः महानद्या पाश्चात्ये कूले द्वादशयोजनायाम नवयोजनविस्तीर्ण यावत् विजयस्कन्धावारनिवेश करोति, अवशिष्टं तदेव यावत् निधिरत्नानाम् अष्टमभक्तं प्रगृह्णाति, ततः खलु स भरतो राजा पौषधशालाया यावत् निधिरत्नानि मनसि कुर्वन् तिष्ठतीति, तस्य च अपरिमितरक्तनयनाः ध्रुवाक्षया व्ययाः सदेवाः लोकोपचयंकराः उपगताः नवनिधयो लोकविश्रुतयशस्काः, तद्यथा-नैसर्पः १, पाण्डुकः२, पिङ्गलकः ३, सर्वरत्नम् ४, महापद्यम् ५, कालश्च ६ महाकालः ७, माणवको महानिधिः ८, शङ्ख: ९॥१॥ नैसर्प निवेशाः ग्रामाकर नगरपत्तनानां च । द्रोणमुखमडम्बानां स्कन्धावारापण गृहाणाम् १ गणितस्य चोत्पत्तौ मानोन्मानस्य यत्प्रमाणं च । धान्यस्य च बीजानां चोत्पत्तिः पाण्डुके भणिता सर्व आभरणविधिः पुरुषाणां यश्च भवति महिलानाम् । अश्वानां च हस्तिनां च स पिङ्गलकनिधौ भणितः ३॥ रत्नानि सर्व रत्ने च चतुर्दशापि वराणि चक्रवत्तिनः ।उत्पद्यन्ते एकेन्द्रियाणि पञ्चेन्द्रियाणिच४॥ वस्त्राणां चोत्पत्तिः निष्पतिश्चैव सर्वभक्तीनाम् । रङ्गानां च प्रक्षालनानां सर्वा चैषा महापद्मे ५ ॥ काले कालज्ञानं सर्व पुराणं च त्रिष्वपि वशेषु । शिल्पशतं कर्माणि च त्रिणि प्रजायाः हितकराणि ६॥ लोहस्योत्पत्ति भवति महाकाले चाकराणाम् । रूप्यस्य सुवर्णस्य च मणिमुक्ताशिला प्रवालानाम् ७ ॥ याधानां चोत्पत्तिरावरणानां च प्रहरणानां च । सर्वा च युद्धनीति माणवके दण्डनीतिश्च ८॥ नृत्यविधिः नाटकविधिः काव्यस्य च चतुर्विधस्योत्पत्तिः । शङ्ख महानिधौ त्रुटिताङ्गानां च सर्वेषाम् ॥९॥ चक्राष्टप्रतिष्ठानाः कष्टोत्सेधाश्च नव च विष्कम्भाः। द्वादश दोघी मजुषावत्संस्थिताः जाह्नव्याः मुखे १०॥ वैडूर्यमणिकपाटाः कनकमयाः विविधरत्नप्रति पूर्णाः ।। शशि सूर चक्रलक्षणा अनुसम वदनोत्पत्तिकाः ११ ।। पल्योपमस्थितिका निधिसदृग्नामानः तत्र च खलु देवाः। येषां ते आवासा अक्रया आधिपध्याय १२॥ एते नव निधिरत्नाः खलु प्रभूत धनरत्न सञ्चयसमृद्धाः । ये वशमुपगच्छन्ति भरताधिप चक्रवत्तिनाम् १६॥ ततः खलु स भरतो राजा अष्टमभक्ते परिणमति पौषधशालातः प्रतिनिष्कामति, एवं मज्जनगृहप्रवेशो यावत् श्रेणि प्रश्रेणि शब्दपनया यावत् निधिरत्नानाम् तष्ठाहिकां महामहिमां करोति, ततः खलु स भरतो राजा निधिरत्नानाम् अष्टाहिकायां महामहिमायां निवृत्तायां सत्यां सुषेणं सेनापतिरात्न शब्दयति शब्दयित्वा एवम् अवादीत् गच्छ खलु भो देवानुप्रियाः!गङ्गायाः महानद्याः पौरस्त्यं निष्कुटं द्वितीयमपि सगङ्गासागरागरीमर्यादं समविषमनिष्कुटानि च 'ओअवेहि' साधय साधयित्वा एतामाज्ञप्तिको प्रत्यर्पय इति । तत; खलु स सुषेणः तदेव पूर्ववणिर्त भणितव्यं यावत् साधयित्वा ताम् आज्ञाप्तिका प्रत्यर्षयति प्रतिविसर्जयति यावत् भोगमोगान् भुजानो विहरति । ततः खलु तद्दिव्यं वक्ररत्नम् अन्यदा कदाचिद् आयुधगृहशालानः प्रति निष्कामति प्रतिनिष्क्रम्य अन्तरिक्ष प्रतिपन्नं यक्ष सहस्त्र संपरिवृत्त दिव्यत्रुटित यावत् आपूरयदिव विजयस्कन्धावारनिवेशं णध्यमध्येन निर्गच्छति दाक्षिणात्य प्राश्चात्याँ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy