SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे साधयित्वा अग्रयाणि वराणि रत्नानि प्रतीच्छ, अग्रयाणि वराणि रत्नानि प्रतीज्य ममैतामाज्ञप्तिकां प्रत्यर्पय, ततः खलु स सेनापतिः बलस्य नेता भरते वर्षे विश्रुतयशाः, महाबलपराक्रमः, महात्मा, ओजस्वी तेजोलक्षणयुक्तः, म्लेच्छभाषाविशारदः, चित्रचारुभाषी, भरते वर्षे निष्कुटानां निम्नानांच दुर्गमानां च दुष्प्रवेशानां च विज्ञायकः, अस्त्रशस्त्रकुशलः अर्थशास्त्र कुशलो वा रत्न सेनापतिः सुषेणं भरतेन राशा एव मुक्तः सन् हृष्टतुष्ट चित्तानन्दितः यावत् करतलपरिगृहीत दशनखं शिरसावत मस्तके अंजलिं कृत्वा एवं स्वामिन् ! तथेति आज्ञा याः विनयेन वचनं प्रतिश्रृणोति, प्रतिश्रत्य भरतस्य राज्ञः अन्तिकात् प्रतिनिष्कामति प्रतिनिक्रम्य यत्रैव स्वस्य आवासः तत्रैवोपागच्छति, उपागत्य कौटुम्बिकपुरुषान् शब्दयति शयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रिय ! आभिषेक्यं हस्तिरत्नं प्रतिकल्पय हयगजरथ प्रवर यावत् चातुरङ्गिणों सेनां सन्नाहय इति कृत्वा यत्रैव मज्जनगृहं तत्रैवोपागच्छति उपागत्य मज्जनगृहमनुप्रविशति अनुप्रविश्य स्नातः कृतबलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः, सन्नद्धबद्धवम्मितकवचः, उत्पीडितशरासनपट्टिकः, पिनद्धप्रै वेयबद्धाविद्ध विमलवरचिह्नपट, गृहीतायुधप्रहरणः, अनेक गणनायक दंडनायक यावत्सार्द्ध संपरिवृतः सकोरण्डमाल्यदाम्ना छत्रेण ध्रियमाणेन मङ्गल जयशब्दकृतालोको मज्जनगृहात् प्रतिनिष्कामति प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थाशाला यत्रैव आभिषेक्यं हस्तिरन्न तत्रैवो पागच्छति, उपागत्य आभिषेक्यं हस्तिरत्नं दुरूढः। ततः खलु स सुषेणः सेनापतिः हस्तिस्कन्धवरगतः सकोरण्ट माल्यदाम्ना छत्रण ध्रियमाणेन हयगजरथप्रवरयोधकलितया चातुनङ्गिण्या सेनया सार्द्ध संपरिवृतः महता भट 'चड़गपहगर विस्तारवृन्द परिक्षिप्तःमहतोत्कृष्ट सहनाद बोलकलकलशब्देन समुद्ररवभूतमिव कुर्वन् कुर्वन् सर्वद्धिकः सर्वातिकः सर्वबलेन यावत् निर्घोषनादेन यत्रैव सिन्धु महानदी तत्रैवोपागच्छति, उपागत्य, चर्मरन्नं परामृशति, ततः खलु तत् श्रीवत्ससदृशम् मुक्ततारार्द्ध चन्द्रचित्रम् अचलम् अकम्पम् अभेद्यकवचम् यत् तत् सलिलासु सागरेषु चोत्तरण दिव्यं चर्मरत्नम् शणसप्तदशानि सर्वधान्यानि यत्र रोहन्ने एकदिवसेनोप्तानि, वर्षे राज्ञा चक्रवत्तिना परामृष्टं दिव्यचर्मरत्नं द्वादशयोजनानि तिर्यक् प्रविस्तृणाति तत्र साधिकानि, ततः खलु तहिव्यं चर्मरत्नं सुषेण सेनापतिना परामृष्टं मत् क्षिप्रमेव नौभूतं जातं चाप्यभवत् । ततः खलु सः सुषेणः सेनापतिः सस्कन्धावारबलवाहनः नौभूतं चर्मरत्नम् आरोहति, आरुह्य सिन्धु महानदी विमलजलतुङ्गवीचिं नौभूतेन चर्मरत्नेन सबलवाहनः स सैन्यः समुत्तीर्णः, ततो महानदी सिन्धुमुत्तीर्य अप्रतिहतशासनश्च सेनापतिः क्वचित् ग्रामाकरनगरपर्वतान् खेट कर्वटमडम्बानि पत्तनानि सिंहलकान् बर्बरकाँश्च सर्व च अङ्गलोक बलावलोकं च परमरम्यम्, यबनद्वीपं च प्रचरमणिरत्नकोशागारसमृद्धम्, आरबकान् रोमांश्च अलसण्ड विषयवासिनश्च पिक्खुरान् कालमुखान् जोनकांश्च उत्तरवैताव्यसंश्रिताश्च म्लेच्छजाती बहुप्रकारा, दक्षिणापरेण यावत् सिन्धुसागरान्त इति, सर्वप्रवरं कच्छं च 'ओअवेउण' साधयित्वा प्रतिनिवृत्तो बहुसमरमणीये च भूमिभागे तस्य कच्छस्य सुखनिषण्णः, तस्मिन् काले ते जनपदानां नगराणां पत्तनानां च ये च स्वामिकाः प्रभूताः आकरपत यश्च मण्डलपतयश्च पत्तनपतयश्च सर्वे गृहीत्वा प्राभृतानि आभरणानि भूषणानि रत्नानि च वस्त्राणि च महा_णि अन्यच्च यद्वरिष्ठं राजाहं यच्च एव्यम् एतत् सेनापते જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy