________________
४२
___ जम्बूद्वीपप्रज्ञप्तिसूत्रे प्रसिद्धाः, बहिणाः मयूराः मदनशलाका:-सारिकाः कोकिला:-प्रसिद्धाः, कोरका:पक्षविशेषाः, भृङ्गारकाः भृङ्गाराः पक्षिविशेषास्त एव भृङ्गारकाः कोण्डलकाः पक्षिविशेषाः, जीवजीवका:-जीवजीवाः चकोरास्त एव जीवञ्जीबकाः, नन्दीमुखाः-पक्षिविशेषाः, कपिलाः-पक्षिविशेषाः, पिङ्गलाक्षका:-पिङ्गलवर्णनेत्राः पक्षिविशेषाः, कारण्डवाः-पक्षिविशेपाः, चक्रवाकाः-केकाः 'चकवे'ति भाषाप्रसिद्धाः, कलहंसाः 'बतक'--इति प्रसिडा, सारसा:-प्रसिद्धाः पक्षिविशेषाः, एते ये अनेके शकुनाः पक्षिणस्तेषां ये गणाः-- समूहा स्तेषां यानि मिथुनानि स्त्रीपुंसयुग्मानि तैर्विरचिताः-कृता ये शब्दोन्नता:-उन्नत शब्दाः-उच्चै रवाः ते मधुरस्वरा मधुरालापयुक्तास्तै दिताः कलकलरवयुक्ताः-विविध पक्षिगण मिथुन कृतमधुरध्वनियुक्ता इत्यर्थः, अतएव सुरम्याः अतीव रमणीयाः, तथा सम्पिण्डित दृप्तभ्रमर मधुकरी प्रकरपरिलीयमानमत्तषट्पद कुसुमासवलोल मधुरगुमगुमायमानगुजद्देशभागाः, तत्र सम्पिण्डिताः कुसुमासवपानार्थ परस्पर सम्मिलिताः ये दृप्तानां मदमत्तानां भ्रमराणां मधुकरीणां भ्रमरीणां च प्रकराः समूहास्तैः सह परिलीयमानाः श्लिष्यन्तः-परिमिलन्तो ये मत्तषट्पदाः, त एव पुनः कुसुमाऽऽसवलोलाश्च पुष्परसाऽऽ स्वादलोलुपाश्च तेषां मधुरं यथा तथा गुमगुमायमानैः गुमगुमेति मधुर भृङ्गसङ्गीत: गुब्जन् मधुरमव्यक्तं शब्दायमानो देशभागो येषु ते तथा । अत्र मधुकरगुरुजनं देश भागे आरोपितम् । तथा अभ्यन्तरपुष्पफलाः अभ्यन्तरे पुष्पफलैः सम्भृताः, बहिः पत्रावच्छन्ना:-बहिः संजात पत्रसमूहमच्छन्नाः पुष्पै फलैश्च अवच्छन्न प्रतिच्छन्नाः सर्वथाऽऽच्छादिताः, तथा स्वादुफला:-स्वादयुक्तफलसम्पन्नाः नोरोगकाः वृक्षचिकित्साशास्त्रप्रदर्शितरोगवर्जिताशीत-विधु-दातपादिजनितोपद्रवरहिता वा, अकण्टकाः कण्टकरहिता नानाविध गुच्छगुल्ममण्डपकशोभिता:नानाविधैः बहुप्रकारैः गुच्छे:-पुष्पस्तबकैः गुल्मैः लताप्रतानैः मण्डपकैः मण्डपाकारलतामण्डलैश्च शोभिताः शोभासम्पन्नाः, विचित्रशुभकेतुभूताः विचित्रशुभक्जरूपाः वापी पुष्करिणी दीर्घिका सुनिवेशितरम्यजालगृहकाः, तत्र वाप्यः चतुष्कोणाः, पुष्करिण्यः-वृत्ता वाप्य एव दीपिकाः अजु सारिण्यः, तासु सुनिवेशितानि सुष्ठुतया स्थापितानि रम्याणि-रमणीयानि जाल गृहकाणि सच्छिद्रगवाक्षा यत्र ते तथा पिण्डिमनि रिमसुगन्धि सुरभिमनोहरां सम्मिलितां सती शुभपुद्गलसमूहरूपेण दूरदेशगामिनीं सुगन्धि शोभनगन्धवतीं शुभसुरभिमनोहरां-श्रेष्ठसुगन्धमनोहारिणीम् , महागन्धघ्राणि-महती चापौ गन्ध एव घाणिः तृप्तिस्तद्धेतुत्वाद् ध्राणिः गन्धघाणिः तां महागन्धघ्राणि-महागन्धतृप्तिम् , मुञ्चन्त:-प्रसारयन्तः तथा शुभ सेतुकेतु बहुलाः गुभा प्रधानाः ये सेतवःमार्गाः आल वालपाल्यो वा, केतवः पताकाश्च तैबहुला:-च्याप्ताः, अनेक रथ शकटयान युग्य गिल्लि थिल्लि स्यन्दमानिकाशिविका प्रविमोचनाः-अनेकेत्यस्य रथादि शिबिकान्त द्वन्द्वघटकेषु
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા