________________
प्रकाशिका टीका सू. ५ पद्मवरवेदिकायाः बहिर्भागस्थवनषण्डवणेनम् ४१ शाखाप्रशाखाविस्तारयुक्ताः अनेक नरव्यामसुप्रसारिताग्राह्यधनविपुलवृत्तस्कन्धाः अनेकेषां बहूनां मनुष्याणां व्यामैः-प्रसारितभुजान्तरालैः अग्राह्य ः-अतिस्थलतयाग्रहीतुमशक्यः घनः-सान्द्रः विपुल:-विशालः वृत्तः-वर्तुलः स्कन्धो येषां ते तथा भूताः अतिस्थूलसघनविशालतया प्रसारितपाणिभिनेरैटुंग्राह्य वर्तुलस्कन्धाः इति यावत् । तथा अच्छिद्रपत्राः अच्छिद्राणि सूर्यकिरणैरपि दुष्प्रवेशानि पत्राणि येषां ते तथापरस्परमिलितपत्राः, अतएव अविरलपत्रा:-निरन्तरपत्राःअवातीनपत्रा:-वातीनानि वातोपहतानि न वातीनानि अवातीनानि तादृशानि पत्राणि येषां ते तथा अत्र अतिसघनत्वाद्वायोरप्रवेशेनाकम्पित पत्रा इत्यर्थः। तथा-अनीतिपत्राः ईतयः षट्-अतिवृष्टिः १, अनावृष्टिः २, मूषिकः३, शलभः ४, शुकः ५. अत्यासन्नो राजा ६ चेति, अविद्यसाना ईतयो येषां तानि अनीतिनि-पडूविधेति रहितानि निरुपद्रवाणि पत्राणि येषा ते तथा । तथा नि त जरठपाण्डुपत्रा:-निधूतानि नष्टानि जरठानि जीर्णानि पाण्डुपत्राणिपाण्डुवर्णपत्राणि येषां ते तथा । तथा नव हरितभासमान पत्र भारान्धकारगम्भीर दर्शनीयाः नवेन सद्योजा तेन हरितेन शुकपिच्छाभेन भासमानः स्निग्धत्वचा दीप्यमानो यः पत्रभारः-पत्रसमूहः तेन अन्धकारा, अन्धकारव्याप्ता अत एव गम्भीराः-इदमी दृगिति विवेक्तु मशक्या यथा तथा दृश्यन्त इति गम्भीरदर्शनीयाः तथाउपविनिर्गतनवतरुणपत्रपल्लवकोमलोज्ज्वलचलत्किसलयसुकुमारप्रवालशोभितवराङ्कुराग्रशिखराः-उपविनिर्गतानि-सद्यः प्रकटितानि नवतरुणानि-नवीनाऽऽगततरुणता सम्पन्नानि यानि पत्र पल्लवानि-पत्रगुच्छरूपाणि तेः, तथा-कोमलोज्ज्वलैः मृदु निमैले चलद्धिःकम्पमानैः, किसलयैः-सद्योजातैः पत्रविशेषैः सुकुमारप्रवालैः-कोमलपल्लवैः शोभितानि वराङ्कुरायशिखराणि-सुन्दराङ्कुरयुक्तोपरितनभागाः येषां ते तथा । अत्र विशेषणेअङ्कुरः-प्रबाल-पल्लव-किसलय-पत्राणि स्वल्पतर स्वल्यबहु चिरतरादि कालकृतावस्थाभेदाद भिन्नानीति भावः । नित्यं कुसुमिता:-सदा सर्वर्तुसंजातपुष्पोपेताः, न तु ऋतु प्रतिबद्धपुष्पाः, नित्यं सदा मुकुलिताः, नित्यं लवकिताः-सदा पल्लविताः, नित्यं सदास्तबकिताः विकासोन्मुखकलिका सम्पन्नाः, नित्यं गुल्मिताः-सदा प्रतानसम्पन्नाः, नित्यं गुच्छिताः-कलिकादि समूहसम्पन्नाः, नित्यं यमलिताः-समपंक्तितया स्थिताः, नित्यं युगलिताः-सदा युगलतया स्थिताः, नित्यं विनमिताः-फल पुष्पादिभिर्विनम्रीकृताः, नित्यं प्रणमिताः केचित् प्रकर्षेण नम्रीकृताः, नित्यं मुविभक्त प्रतिमन्जर्यवतंसकधराः, नित्यं-सर्वकालं सुविभक्तः सुविच्छित्तिक प्रतिविशिष्टो मजरीरूपो योऽवतंसकः शिरोभूषणस्तद्धरा-तद्धारिणः । नित्यं कुसुमित मुकुलितलवकित स्तबकित गुल्मितगुच्छितयमलितयुगलितविनमितप्रणमितसुविभक्तप्रतिमजर्यवतंसकधराः, अत्र स्थानि कुसमितादिपदानि पूर्व पृथक पृथग् व्याख्यातानि । शुकबहिण मदनशलाका कोकिल कोरक भृङ्गारक कोण्डलकजीवजीवकनन्दीमुखकपिल पिङ्गलाक्षक कारण्डवचक्रवाककलहंससारसानेकशकुनगणविरचितशब्दोन्नतमधुरस्वरनादिताः-तत्र शुकाः
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર