________________
प्रकाशिका टीका सू० ४ जम्बूद्वीपप्राकारभूतजगत्याः वर्णनम्
३३
एतदव्याख्यानुपदं गता । पुनस्ताः पद्मलतादयः सर्वाः लताः सर्वरत्नमय्यः सर्वात्मना - कर्केतनादिरत्नमय्यः पुन अच्छा ः यावत् प्रतिरूपाः - अच्छादि प्रतिरूपान्तानां सङ्ग्रहोऽर्थश्रस्मिन्नेव सूत्रे पूर्वं कृतः । तस्याः पूर्वोक्तायाः खलु पद्मवर वेदिकायाः तत्र तत्र, देशे तस्मिंस्तस्मिन् देशे तत्र तत्र तस्यैव देशस्यैकदेशे अक्षय स्वस्तिकानि प्रज्ञप्तानि कथितानि तानि अक्षय स्वस्तिकानि कीदृशानि : इत्याह- सर्वरत्नमयानि सर्वात्मना रत्नमयानि, अच्छानि यावत् प्रतिरूपाणि अच्छादि प्रतिरूपपर्यन्तपदानां संग्रहो विवरणं च प्राग्वत् । पूर्वतोऽत्र नपुंसककृतो विशेषः । सम्प्रति पद्मबरवेदिकाशब्दार्थ गौतमः पृच्छति
अथ केन अर्थेन कारणेन भदन्त ! एवम् इत्थम् उच्यते कथ्यते यत् पद्मवरवे - दिका २ इति ? किमर्थमादायास्याः पद्मवरवेदिकेति शब्दप्रवृत्तिर्जातेत्यर्थः । इति पृष्टो भगवान् गौतमं प्रत्याह - हे गौतम ! पद्मवरवेदिकायाः तत्र तत्र - तस्मिंस्तस्मिन् देशे तत्र तत्र तस्यैव देशस्यैकदेशे वेदिकासु - उपवेशनार्थमत्तगजाकाररूपासु वेदिका बाहासु वेदिकायाः वाहासुः पार्श्वेषु वेदिकापुटान्तरेषु वेदिकयोर्द्वयोर्यत् पुटं - परस्परमेलनं तदन्तरेषु तन्मध्येषु स्तम्भेषु प्रसिद्धेषु स्तम्भबाहासु स्तम्भपार्श्वेषु, स्तम्भशीर्षेषु स्तम्भाग्रभागेषु स्तभपुटान्तरेषु द्वयो स्तम्भयोः सन्धिमध्येषु सूचीषु फलकद्वय - संधानार्थप्रतनुकीलकरूपासु सूचिषु सूचीमुखेषु सूचीनां फलकान्तः प्रवेशासन्नप्र देशेषु सूची फलकेषु सूचीसंयोजित फलकप्रदेशेषु सूचीपुटान्तरेषु सूचीद्वयमेलनमध्येषु पक्षेषु वेदिकाया अवयवविशेषेषु तथा पबक्षाहासु वेदिका पार्श्वेषु, वहूनि - प्रचुराणि उत्पलानि - चन्द्र विकाशीनि कमलानि पद्मानि - सूर्यविकाशीनि कमलानि कुमुदानी कैरवाणि, तान्यपि चन्द्रविकाशीनि श्वेतरक्तादिवर्णानि भवन्ति, तानि सुभगानि सुन्दराणि, सौगन्धिकानि कहलाराणि, श्वेतवर्णानि सुगन्धीनि कमलानि, पुण्डरीकाणि-श्वेत कमलानि, तान्येव महान्ति महापुण्डरीकाणि, शतपत्राणि - पत्रशतविशिष्टानि कमलानि सहस्रपत्राणि पत्रसहस्रयुक्तानि कमलानि एतानि सर्वाणि सर्वरत्नमयानि, सर्वात्मना कर्केतनादि रत्नमयानि, अच्छानि यावत् प्रतिरूपाणि अच्छादिप्रतिरूपपर्यन्तपदानां संग्रहो विवरणं च प्रागवत् । पुनस्तानि कथम्भूतानि ? इत्याह- महावार्षिक च्छत्रसमानानि महान्ति विशालानि यानि वार्षिकानि वर्षाकालिकानि जलधारानिवारणार्थानि च्छत्राणि तैः समानानि - समाकाराणि प्रज्ञप्तानि - कथितानी हे श्रमण आयुष्मन् ! गौतम : सा पद्मवर वेदिका एतेन अनन्तरोक्तेन अर्थेन समुचितेनार्थेन एवम् इत्थम् - उच्यते कथ्यते यत् पद्म वरवेदिका पद्मववेदिति । अथ च खलु अत एवास्याः पद्मवर वेदिका पद्मबर वेदि - केति शाश्वतं नामधेयं प्रज्ञप्तमिति । पुनर्गोतमः पृच्छति - हे भदन्त पद्मवरवेदिका खलु किं शाश्वती उत अशाश्वती ! इति पृष्टो भगवानाह - हे गौतम स्याच्छाश्वती स्यादशाश्वती । अत्र स्याच्छन्दः कथञ्चिदर्थको निपातः तेन कथञ्चिच्छाश्वती कथञ्चिदशाश्वती विद्यते । पुनर्विशेषजिज्ञासया गौतमः पृच्छति - " से केणद्वेणं' इत्यादि । अथ केना
४
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર