SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे सर्वदा सर्वथा शोभां धारयमाणानि तिष्ठन्ति । तस्याः अनन्तरोक्तायाः खलु पद्मवरवेदिकायाः तत्र तत्र - तस्मिस्नस्मिन् देशे तत्र तत्र तस्य देशस्य तस्मिस्तस्मिन् अवान्तरदेशे बहवः-बहुसंख्या अनेके हयसंघाटका:-अश्वसंघाता:-अश्वसमूहाः एवं गजनरकिन्नर-किंपुरुष-महोरग-गन्धर्व-वृषभानां-संघाटा वोध्याः, ते च हयादिसंघाटा: सर्वरत्नमया:-सर्वात्मना रत्नमयाः, यावत्-यावत्पदेन-अच्छा:-श्लक्ष्णाः , घृष्टाः , मृष्टाः, नीरजसः, निर्मलाः, निष्पङ्काः,निष्कङ्कटच्छायाः, सप्रमाः, समरीचिकाः सोद्द्योताः, प्रासादीयाः, दर्शनीयाः, अभिरूपाः; इत्येषां सङ्ग्रहो बोध्यः, तथा प्रतिरूपाः एषां पदानां व्याख्याऽस्मिन्नव सत्रे पूर्वं जगतो वर्णनप्रसङ्गे कृता, केवलं स्त्रीपुंसत्व बहुवचनकृतो विशेषः, एवम् -इत्यादि संबाटवत् पङ्क्तयोऽपि-हयादीनां श्रेणयोऽपि बोध्याः, तथा हयादीनां वीथयः उभयोः पार्श्वयोरेकैकश्रेणिमावेन यत् श्रेणियुगलं तत् बीथि पदवाच्यम् तद्वहुत्वे वीथयः अनेक श्रेणी हयानि पंक्तिस्तु एकस्यां दिशि अथवा श्रेणिः सा व्यहियते अतो न पंक्ति-वीथ्योरेकार्थकताशङ्का । एतेषामेव हयगजनरकिन्नरकिम्पुरुष महोरगगन्धर्ववृषभानामष्टानां स्त्री पुसयुग्म प्रतिपादनार्थमाह मिथुनकान्यापि स्त्रीपुंसयुग्मान्यपि हयादिसङ्घाटबदेव वक्तव्यानि ८। तस्याः पूर्वोक्तायाः खलु पद्मवरवेदिकायाः तत्र तत्र तस्मिंस्तस्मिन् देशे तत्र तत्र तद्देशैकदेशे बहव्यः पद्मलताः पद्मिन्यः नागलताः नागाः वृक्षविशेषाः तद्रपाः लताः तिर्यकशाखा विस्तार रहितत्त्वाल्लता इवेति नागलनाः एवम् अशोकलताः अशोकवृक्षरूपलताः चम्पकलताः चम्पकपुष्पवृक्षविशेषरूपलताः वनलताः वननार्थकवृक्षविशेषरूपलताः, वासन्तीलताः वासन्तीपुष्पविशेषलताः अतिमुक्तकलताः अतिमुक्तकः तिनिशनामको वृक्षविशेष स्तद्रपालताः कुन्दलताः-कुन्दनामक पुष्पविशेषलताः श्यामलताः श्यामा वनस्पतिविशेषः शारिवेति प्रसिद्धा तद्रूपा लताः ताअनन्तरोक्ताः पद्मलतादयो लताः कीदृशः ? इत्याह-नित्यं-सदा कुसुमिताः पुष्पिताः पुष्पसम्पन्नाः नित्यं मुकुलिता कुड्मलिता ईषद्विकासोन्मुखकालिका सम्पन्नाः नित्यं लवकिताः सजातपल्लवलवाः नित्यं स्तबकिता विकासोन्मुखाकलिका सम्पन्ना नित्यं गुल्मिताः स्तम्विताः काण्डरहितावयव सम्पन्नाः। नित्यं गुच्छिताः पत्रपुष्पगुच्छसमूहसम्पन्नाः नित्यं यमलिताः सजातीयलतायुग्मपरिवेष्टिताः नित्यं युगलिताः सजातीय विजातीयलताद्वयपरिवेष्टिताः नित्यं विनमिताः फलपुष्पादिसारेण विशेषेण नम्रभावं प्रापिताः, नित्यं प्रणमिताः फल पुष्पादिभारेणनम्रमावं प्रापयितुमारब्धाः नम्रमावोन्मुखा इति भावः, नित्यं सुविभक्तप्रतिपिण्डमजयवतंसकधराः सुविभक्तः सम्यग् विभागयुक्तो यः प्रतिमजयंवतंसकः प्रतिमन्जरी प्रतिगता प्रतिपल्लवस्थिता या मजरी-पुष्पमञ्जरी सैवावतंसकः शिरोभूषण विशेषः तस्य धराः धारिकाः, एवं सति ताः पद्मलतादयो लताः नित्यं कुसुमितमलितलवकित स्तबकितगुल्मितयमलितयुगलितविनमितप्रणमितसुविमक्तप्रतिमर्यवतंसकधराः જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy