________________
प्रकाशिका टीका सू. ४ जम्बूद्वीपप्राकारभूतजगत्याः वर्णनम्
३१ ग्मानि, अङ्कमयाः-अङ्करत्नमयाः, पक्षाः-वेदिकावयवाः, पक्षवाहाः वेदिकावयवकविशेषाश्च, ज्योतिरसमया:-ज्योतिरस-नामकरत्नमयाः-वंशाः-पृष्ठवंशाः महान्तो मध्यवलका इत्यर्थः, वंशकवेल्लुकानि-तत्र वंशाश्च-महतां पृष्ठवंशानामुमयपार्श्वयोस्तिर्यक् स्थाप्यमानाः वंशाः कवेलुकानि-तदुपरि आच्छादनविशेषाश्च एतान्यापि ज्योतीरसमयानि रजतमय्य:- रूप्यमय्यः षट्टिका:-वंशानामुपारि कम्बा स्थानीयाः प्रतराः, जातरूपमय्या-सुवर्णविशेषमय्यः अवघाटिन्यः-कम्बोपरिस्थाप्यमानाच्छादनभूतमहाप्रमाणकिलिञ्चस्थानीयाः, वज्रमय्यः- वज्ररत्नमय्यः, उपरि-अवघाटिनीनामुपरि पुन्छन्यःनिविडतराऽऽच्छादनभूतचिक्कणतरतृणविशेषस्थानीयाः, सर्वश्वतं सर्वात्मना श्वेत-श्वेतवर्ण रजतमयं रूप्यमयं छादनम्-आच्छादनम् । सा पूर्वोक्ता खलु पमवरवेदिका एकैकेन हेम जालेन-स्वर्णमयमालासमूहेन 'संपरिक्षिप्ता' इति परेण सम्बन्धः, एवमग्रेऽपि, एकैकेन कनकजालेन- पीतवर्णस्वर्णविशेषमयमालासमूहेन, एकैकेन किङ्किणीजालेन-क्षुद्रघण्टिकासमूहेन, एकैकेन घण्टाजालेन-घण्टासमूहेन एकैकेन मुक्काजालेन-मुक्ताफलमयमालासमूहेन, एकैकेन कनकजालेन मणिजालेन-मणिमयमालासमूहेन, एकैकेन कनकजालेन पीतसुवर्णमयमालासमूहेन एकैकेन रत्नजालेन-हीरकादिरत्नमयमालासमहेन, एकैकेन पद्मजालेन सर्वरत्नमयेन कमलमालासमूहेन सर्वतः सर्वदिक्षु समन्तात् सर्वविदिक्षु संपरिक्षिप्ता-सम्यक परिवेष्टिता तानि-हेमजालादीनि जालानि-दामानि मालाः, तपनीयलम्बूसकानि तपनीयं- रक्तवर्ण स्वर्ण तन्मयोलम्बूसकाः- मालाग्रभागस्थमण्डनविशेषो येषां तानि तथा, तथा-सुवर्णप्रतरकमण्डितानि-सुवर्णमयपत्रभूषितानि तथा नाना मणिरत्न हारार्द्धहारोपशोमितसमुदयानि, तत्र-नाना- अनेक प्रकारकाणि यानि मणिरत्नानि मणयामरकतादयः रत्नानि-कतनादीनिच तेषां -तत्सम्बन्धिन:- तद्रचिता ये विविधा द्वारार्द्धहाराः तत्र हाराः - अष्टादशसरिकाः, अर्द्धहाराः- नवसरिकाश्च हारविशेषाः, तैरुपशोभितः अलङ्कृतः समुदयः समूहो येषां तानि तथा, तथा- ईषदन्योऽन्यमसम्प्राप्तानि-ईषत किंचित् अन्योऽन्यं -परस्परम्, असम्प्राप्तानि. असंलग्नानि, तथा पूर्वापरदक्षिणोत्तराऽऽगतैः पूर्वपश्चिमदक्षिणोत्तरदिग्भ्यः समागतैः वातैः वायुभिः मन्दं मन्दम् अतिमन्दम किश्चिदित्यर्थः एजमानानि एजमानानि पुनः पुनः कम्पमानानि, प्रलम्बमानानि प्रलम्बमानानि इतस्ततः किञ्चिच्चलनेन पुनः पुनः लम्बितानि भवन्ति तथा 'पझं झमाणाई' इति शब्दायमानानि २ परस्परं संघर्षवशात् पुनः पुनः शब्दं कुर्वाणानि तथा -उदारेण- विशालेन व्यापकेनेत्यर्थः, अस्य 'शब्देने' ति परेण सम्बन्धः एवमग्रेऽपि. मनोज्ञेन - मनोऽनुकूलेन, मनोऽनुकूलत्वं लेशतोऽपि स्यादत आह-मनोहरेण-श्रोतजनमनोहरणकारकेण अतएब कर्णमनोनिवृतिकरण प्रतिश्रोतृकर्णमनःसुखोत्पादकेन शब्देन तान् पद्मवरवेदिकाऽसन्नान् सर्वतः सर्वदिक्षु आपूरयमाणानि २ वारंबारपूरितान कुर्वाणानि, श्रिया- शोभया अतीव २ अत्यधिकं यथा स्थात्तथा उपशोभमानानि २
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર