SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ३० जम्बूद्वीपप्रज्ञप्तिसूत्रे तत्र तत्र देशे तत्र तत्र बहवो हयसवाटा गजसवाटाः नरसङ्घाटाः किन्नरसवाटाः किंपुरुषसङ्घाटाः महोरगसङ्घाटाः गन्धर्वसङ्घाटाः वृषभसवाटाः सर्वरत्नमयाः यावत् प्रतिरूपाः, एवं पंक्तयोऽपि वीथयोऽपि मिथुनकान्यपि । च तस्याः खलु पद्मवरवेदिकाया तत्र तत्र देशे तत्र तत्र वयः पद्मलताः नागलताः अशोकलताः चम्पकलताः वनलताः वासन्तीलताः अतिमुक्तलताः कुन्दलता श्यामलता नित्यं कुसुमिताः नित्यं मुकुलिताः नित्यं लवकिताः नित्यं स्तवकिताः नित्यं गुल्मिताः नित्यं गुच्छिताः नित्यं यमलिताः नित्यं युगलिताः नित्यं विनमिताः नित्यं प्रणमिताः नित्यं सुविभक्तप्रतिपिण्डमञ्जर्यवतंसकधराः नित्यं कुसुमित मुकुलित लवकितस्तबकित गुल्मित यमलितयुगलित विनमित प्रणमित सुविभक्तप्रतिपिण्डमञ्जयेवतंसकधराः सवेरत्नमय्यः अच्छाः यावत् प्रतिरूपाः । तस्याः खलु पद्मवरवेदिकायाः तत्र तत्र देशे तत्र २ अक्षय स्वस्तिकानि प्रज्ञप्तानि सर्वरनमयानि अच्छानि यावत् प्रतिरूपाणि । अथ केनार्थेन भदन्त ! एवमुच्यते-पद्मवरवेदिकः ? २ गौतम ! पद्मवरवेदिकायास्तत्र तत्र देशे तत्र २ वेदिकासु वेदिकावाहासु वेदिका पुटान्तरेषु स्तम्भेषु स्तम्भबाहासु स्तम्मशीर्षेषु स्तम्भपुटान्तरेषु सूचीषु सूचीमुखेषु सूचीफलकेषु सूचीपुटान्तरेषु पक्षेषु पक्षबाहासु बहूनि उत्पलानि पद्मानि कुमुदानि सुभगानि सौगन्धिकानि पुण्डरीकाणि महापुण्डरीकाणि शतपत्राणि सहस्रपत्राणि सर्वरत्नमयानि अच्छानि यावत प्रतिरूपाणि महावार्षिकच्छवसमानानि प्रज्ञप्तानि श्रमणाऽऽयुष्मन् ! सा एतेनार्थेत गौतम ! एवमुच्यते-पद्मबरवेदिका २ 'अदुत्तरं वा णं' अथ च खलु गौतम ! पदमवरवेदिका इति शाश्वतं नामधेयं प्रज्ञप्तम् । पदमवरवेदिका खलु भदन्त किं शाश्वती अशाश्वती ? गौतम स्यात् शाश्वती स्यादशाश्वती अथ केनार्थेन स्यात् शाश्वती स्यादशाश्वती ? गौतम ! द्रव्यार्थतया शाश्वतीवर्णपर्यायैः गन्धपर्यायैः रसपर्यायैः स्पर्शपर्यायः अशाश्वती सा तेनार्थेन एवमुच्यते स्यात् शाश्वती स्यादशाश्वती । पद्मवरवेदिका खलु भदन्त ! कालतः कियचिरं भवति ! गौतम ? न कदाचित् नाऽऽसीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति, अभूच्च भवति च भविष्यति च ध्रुवा नियता शाश्वती अक्षया अव्यया अवस्थिता नित्या " इति । ___ अथ व्याख्याः- तस्याः पद्मवरवेदिकायाः वज्रमयाः-वज्ररत्नमयाः नेमाःभूमिभागावं निःसृताः प्रदेशाः रिष्टमयानि-रिष्टरत्नमयानि प्रतिष्ठानानि मूलपादाः वैडूर्यमया:- वैड्यरत्नमयाः स्तम्भाः , सुवर्णमयानि-फलकानि-पद्मवरवेदिकावयवभू. तानि, लोहिताक्षमय्य:-लोहिताक्षरत्नमय्यः सूचयः-फलकद्वयसंयोगकारि पादत्थानीयाः, वज्रमय्याः- वज्ररत्नमयाः, सन्धयः-फलकानां मेलनानि वज्ररत्नलेपापूरिताः फलकसन्धयः इति भावः । नानामणिमयानि-विविधमणिमयानि कलेवराणि-मनुष्याकाररूपाणि, तथा-नानामणिमयाः कलेवरसङ्घाटा:-मनुष्ययुग्मकरूपाणि, तथा-नानामणिमयानि रूपाणि गजाश्वादीनामाकाराः नानामणिमयाः रूपसङ्घाटा:-गजाश्वादिरूपयु જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy