________________
६१४
सूर्यप्रज्ञप्तिसूत्रे
hor क्खत्तेणं जोएइ ?, ता मूलेणं, मूलस्स छ मुहुत्ता अट्ठावन्नं च बावट्टिभागा मुहुत्तस्स बावट्टिभागं च सतट्टिहा छेत्ता वीसं चुण्णिया भागा सेसा, तं समयं च पणं सूरे केणं णक्खत्तेणं जोएइ ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए । ता एएसि णं पंचहं संवच्छरणं पंचमं हेमंति आउट्ठि चंदे केणं णक्खत्तेणं जोएइ ?, ला कत्तियाहिं, कत्तियाणं अट्ठारसमुहुत्ता छत्तीसं च वावट्ठभागा मुहुतस्स, बावट्टभागं च सत्तट्टिहा छेत्ता छ चुण्णिया भागा सेसा । तं समयं चणं सूरे केणं णक्खत्तेणं जोएइ ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए | सू० ७७ |
छाया - तावद् एतेषां पञ्चानां संवत्सराणां प्रथमां हैमन्ती मावृत्ति चन्द्रः केन नक्षत्रेण युनक्ति ? तावत् हस्तेन, हस्तस्य खलु पञ्चमुहूर्त्ताः पञ्चाराच्च द्वाषष्टिभागा मुहूर्त्तस्य द्वाषष्टिaria far fछत्वा षष्टिश्चूर्णिकाभागाः शेषाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ?, उत्तराभिराषाढाभिः, उत्तराणामापाढानां चरमसमयः । तावदेतेषां पञ्चानां संवत्सराणां द्वितीयां हैमन्ती मावृत्तिं चन्द्रः केन नक्षत्रेण युनक्ति ?, तावच्छतभिषाभिः, शतभिषाणां द्वौ मुहूर्त्ती अष्टाविंशतिश्च द्वाषष्टिभागा मुहूर्त्तस्य द्वाषष्टिभागं च सप्तषष्टिधा छित्वा षट्चत्वारिशच्चूर्णिकाभागाः शेषाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ?, तावदुत्तराभिराषाढाभिः, उत्तराणामाषाढानां चरमसमयः । तावद् एतेषां खलु पञ्चानां सम्वत्सराणां तृतीयां हैमन्ती मावृत्तिं चन्द्रः केन नक्षत्रेण युनक्ति ?, तावत् पुष्येण, पुष्यस्यैकोनविंशतिर्मुहूर्त्ता, त्रिचत्वारिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य द्वाषष्टिभागं च सप्तषष्टिधा छित्वा त्रयस्त्रिंशच्चूर्णिकाभागाः शेषाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ?, तावदुत्तराभिराषाढाभिः, उत्तराणामाषाढानां चरमसमयः । तावद् एतेषां पञ्चानां संवत्सराणां चतुर्थी हैमन्ती मावृत्ति चन्द्रः केन नक्षत्रेण युनक्ति ?, तावद् मूलेन, मूलस्य षट् मुहूर्त्ताः, अष्टापश्चाशच्च द्वाषष्टिभागा मुहूर्त्तस्य, द्वाषष्टिभागं च सप्तषष्टिधा छित्वा विंशश्चूर्णिकाभागाः शेषाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति !, तावदुत्तराभिरावाढाभिः, उत्तराणामापादानां चरम समयः । तावदेतेषां खलु पञ्चानां संवत्सराणां पञ्चमीं हैमन्ती मावृत्तिं चन्द्रः केन नक्षत्रेण युनक्ति ?, तावत् कृत्तिकाभिः, कृत्तिकानामष्टादश मुहूर्त्ताः पत्रिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य, द्वाषष्टिभागं च सप्तषष्टिधा छित्वा पट् चूर्णिकाभागाः शेषाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ?, तावदुत्तराभिराषाढाभिः, उत्तराणामाषाढानां चरमसमयः || सू० ७७ ॥
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨