________________
९००
सूर्यप्रज्ञप्तिसूत्रे दशम प्राभृतस्य नवमं प्राभृतप्राभृतम् मूलम्-ता कहं ते तारग्गे आहिएति वएजा ता एएसि णं अट्ठावोसाए णक्खत्ताणं अभीइणक्खत्ते कइ तारे पण्णत्ते ? । तितारे पण्णत्ते, सवणे णक्खत्ते कइ तारे पण्णत्ते, तितारे पण्णत्ते, धणिटा णक्खत्ते कइ तारे पण्णत्ते । पणतारे पपणत्ते, सयभिसया णक्खत्ते दुतारे पण्णत्ते, एव उत्तरा वि रेवई णक्खत्ते कइ तारे पण्णत्ते, बत्तीसति तारे पण्णत्ते, अस्सिणी णखत्ते कइ तारे पण्णत्ते, तितारे पण्णत्ते, एवं सव्वे पुच्छिज्जति, भरणी तितारे पण्णत्ते, कत्तियाए छ तारे पण्णत्ते, रोहिणी पंच तारे पण्णत्ते, मग्गसिरा तितारे पण्णत्ते, अदा एगतारे पण्णत्ते, पुणवसू पंचतारे पण्णत्ते पुस्से णक्खत्ते तितारे पण्णत्ते, अस्से स्सा छ तारे पण्णत्ते, महा सत्ततारे पण्णत्ते, पुवाफग्गुणी दुतारे पण्णत्ते, एवं उत्तरा वि, हत्थे पंचतारे पण्णत्ते, चित्ता एगतारे पाणत्ते, साई एगतारे पण्णत्ते विसाहा पंचतारे पण्णत्ते, अणुराहा पंचतारे पण्णत्ते, जिट्टा तितारे पण्णत्ते, मूले एगतारे पण्णत्ते, पुव्वासाढा चउतारे पण्णत्ते, उत्तरासाढा णक्खत्ते, चउतारे पाणत्ते ॥ सू० ४२॥
। दसमस्स पाहुडस्स णमं पाहुडपाहुडं समत्तं ॥ छाया-तावत् कथं ते ताराग्रम् आख्यातमिति वदेत् । तावत् एतेषामष्टाविंशते नक्षत्राणाम् अभिजिन्नक्षत्रं कति तारकं प्रज्ञप्तम् ?, त्रितारकं प्रज्ञप्तम् , श्रवणानक्षत्रं कति तारक प्रज्ञप्तम् ?, त्रितारकं प्रज्ञप्तम् , धनिष्ठानक्षत्रं कति तारकं प्रज्ञप्तम् ?, पश्चतारकं प्रज्ञप्तम् , शतभिषानक्षत्र कति तारकं प्रज्ञप्तम् !, शततारकं प्रज्ञप्तम् , पूर्वापौष्ठपदा कति तारक प्रज्ञप्तम् ?, द्वितारकं प्रज्ञप्तम् , एवम् उत्तरापि, रेवतीनक्षत्र कति तारकं प्रज्ञप्तम् ?, द्वात्रिशत्तारकं प्रज्ञप्तम् ?, अश्विनीनक्षत्र कति तारकं प्रज्ञप्तम् ?, त्रितारकं प्रज्ञप्तम् , एवं सर्वे पृच्छयन्ते, भरणी त्रितारा प्रज्ञप्ता, कृत्तिका षट्तारा प्रज्ञप्ता, रोहिणी पञ्चतारा प्रज्ञप्ता, मृगशीर्ष त्रितारं प्रज्ञप्तम् , आर्दा एक तारा प्रज्ञप्ता, पुनर्वसुः पञ्चतारः प्रज्ञप्तः, पुष्य नक्षत्र त्रितारकं प्रज्ञप्तम् , आश्लेषा षट्तारा प्रज्ञप्ता, मघा सप्ततारा प्रज्ञप्ता, पूर्वाफाल्गुनी द्वितारा प्रज्ञप्ता, एवम् उत्तरापि, हस्तः पञ्चतारःप्रज्ञप्तः, चित्रा एकतारा प्रज्ञप्ता, स्वाती एकतारा प्रज्ञप्ता, विशाखा पञ्चतारा प्रज्ञप्ता, अनुराधा पञ्चतारा प्रज्ञप्ता, ज्येष्ठा त्रितारा प्रज्ञप्ता, मूलम् एकतारं प्रज्ञप्तम् , पूर्वाषाढा चतुस्तारा प्रज्ञप्ता, उत्तराषाढा नक्षत्र चतुस्तारं प्रज्ञप्तम् ॥सू०४२॥
॥ दशमस्य प्राभृतस्य नवमं प्राभृतप्राभृतं समाप्तम् ॥
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧