SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३१ नवमं प्राभृतम् लेश्या मभिवर्द्धयति न चैव निवर्तयति, तावद् यदा खलु सूर्यः सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्ता उत्कषिका अष्टादशमुहर्ता रात्रि भवति, जघन्यो द्वादशमुहत्तों दिवसो भवति, तस्मिश्च खलु दिवसे सूर्यो द्विपौरुषी छायां निवर्तयति, तं जहा-तस्मिंश्च दिवसे खलु उद्गमनमुहर्ते च अस्तमनमुहर्ते च लेश्यामभिवर्द्धयति न चैव खलु निर्वेष्टयति १, तत्र खलु येते एवमाहु स्तावत् अस्ति खलु सः दिवसो यस्मिंश्च दिवसे सूर्यों द्विपारुषी छायां निवर्तयति, अस्ति खलु सः दिवसो यस्मिंश्च दिवसे सूर्यो न कांश्चित पौरुषी छायां निवर्तयति-ते एवमाहु स्तावद् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु उत्तमकाष्ठा प्राप्त उत्कर्षकोऽष्टादशमुहत्तो दिवसो भवति, जघन्या द्वादशमुहर्ता रात्रि भवति, तस्मिंश्च खलु दिवसे सूर्यों द्विपौरुषी छायां निवर्तयति तं०-तस्मिंश्च खलु दिवसे उद्गमनमुहर्ते अस्तमनमुहर्ते च लेश्यामभिवर्द्धयति, न चैव खलु निर्वेष्टयति, तावत् यदा खलु सूर्यः सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्पिका अष्टादशमुहर्ता रात्रि भवति, जघन्यो द्वादशमुहत्तों दिवसो भवति, तस्मिंश्च खलु दिवसे सूर्यः न काश्चित् पौरुषी छायां निवर्तयति, तं०-तस्मिंश्च खलु दिवसे उद्गमनमुहः च अस्तमनमुहर्त च न चैव खलु लेश्यामभिवर्द्धयति वा निर्देष्यति वा, तावत कति काष्ठां ते सूर्यः पौरुषी छायां निवर्तयति आख्यात इति वदेत् ?, तत्र इमाः षण्णवतिः प्रतिपत्तयः प्रज्ञप्ताः । तत्र एके एवमाहुः, अति खलु सः देशो यस्मिश्च खलु देशे सूर्यः एकपौरुषी छायां निवर्त्तयति, एके एवमाहुः, एके पुनरेवमाहु स्तावत् अस्ति खलु सः देशो यस्मिंश्च देशे सूर्यों द्विपौरुषी छायां निवर्तयति, एवम् एतेन खलु अभिलापेन नेतव्यं, यावत् षण्णवतिं पौरुषी छायां निवर्तयति, तत्र येते एवमाहु-स्तावत् अस्ति खलु सः देशो यस्मिंश्च खलु देशे सूर्यः एकपौरुषी छायां निवेत्तयति, ते एवमाहु-स्तावत् सूर्यस्य खलु सर्वाधस्तनात् सूर्यप्रतिधे बहिरभिनिःस्मृताः लेश्या स्ताडयमानाः अस्याः रत्नप्रभायाः पृथिव्याः बहुसमरमगीयाद् धूमिभागात गावति सूर्यः ऊर्व मुच्चैस्त्वेन एतावता एतेन अध्वना एकेन छायानुमानप्रमाणेन अनुमीयते, तत्र सः सूर्य एकपौरुषी छायां निवत्तयति, तत्र येते एबमाहुस्तावन् अस्ति खलु स देशो यस्मिश्च देशे सूर्यों द्विपौरुषी छायां निवत्तयति ते एवमाहु स्तावत् सूर्यस्य खलु सर्वाधस्तनात् सूर्यप्रतिधे बहिरभिनिःसृताः लेश्या स्ताडयमानाः अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागाद् यावति सूर्यः ऊर्ध्वमुच्चैस्त्वेन एतावद्भयां द्वाभ्यास् अद्धाभ्यां द्वाभ्यां छायानुमानप्रमाणाभ्याम् अवमित एवं खलु सः सूर्यः द्विपौरुषी छायां निवर्तयति, एवं नेतव्यं यावत् तत्र येते एवमाहुस्तावद् अस्ति खलु सः देशो यस्मिंश्च खलु देशे सूर्यः षण्णवतिं पौरुष्यश्छायाः निर्वतयति, ते एवमाहु-स्तावत् सूर्यस्य खलु सर्वाधस्तनात् सूर्यप्रतिधे बहिरमिनिःसृताः लेश्या स्ताडयमाना अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागाद् यावति सूर्य ऊर्ध्वमुच्चत्वेन एतावद्भिः षण्णवतिभिः छायानुमानप्रमाणैः, अवमितः, एवं खलु स सूर्यः षण्णवति पौरुष्य શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy