SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २४ तृतीयं प्राभृतप्राभृतम् तावत् सप्तद्वीपान् सप्तसमुद्रान् चन्द्रसूर्यो अवभासयतः उद्योतयत स्तापयतः प्रकाशयतः, एके एवमाहुः ४ ॥ एके पुनरेवमाहुः ५, तावद्, दश द्वीपान् दशसमुद्रान् चन्द्रसूर्यो अवभासयत उद्योतयत स्तापयतः प्रकाशयतः, एके एवमाहुः ५। एके पुनरेवमाहुः ६-तावद् द्वादश द्वीपान् द्वादश समुद्रान् चन्द्रसूर्यो अवभासयत उद्योतयत स्तापयतः प्रकाशयतः, एकेएवमाहुः ६ । एके पुनरेवमाहुः ७-द्विचत्वारिंशतं द्वीपान द्वीचत्वारिंशतं समुद्रान् चन्द्रस्यौं अवभासयत उद्योतयतः, तापयतः प्रकाशयतः, एके एवमाहुः ७। एके पुनरेवमाहुः ८तावद् द्वासप्ततिं द्वीपान् द्वासप्ततिं समुद्रान् चन्द्रसूर्यो अवभासयत उद्योतयत स्तापयतः प्रकाशयतः, एके एवमाहुः ८ । एके पुनरेवमाहुः ९, तावद् द्विचत्वारिंशतं द्विपशतं द्विचत्वारिंशतं समुद्रशतं चन्द्रसूर्यो अवभासयतः उद्योतयत स्तापयतः प्रकाशयतः, एके एवमाहुः ९॥ एके पुनरेवमाहुः १०, तावद् द्वासप्ततं द्वीपशतं द्वासप्ततं समुद्रशतं चन्द्रसूयौँ अवभासयतः उद्योतयत स्तापयतः प्रकाशयतः, एके एवमाहुः १०। एके पुनरेवमाहुः ११,-तावद् द्वाचत्वारिंशं द्वीपसहस्रं द्वाचत्वारिंशं समुद्रसहस्रं चन्द्रसूर्यो अवभासयत उद्योतयतस्तापयतः प्रकाशयतः एके एवमाहुः ११ । एके पुनरेवमाहुः १२,-तावद् द्वासप्तत द्वीपसहस्र द्वासप्ततं समुद्रसहस्रं चन्द्रसूयौँ अवभासयत उद्योतयतः तापयतः प्रकाशयतः, एके एवमाहुः १२ ॥ वयंपुनरेवं वदामः, अयं खलु जम्बूद्वीपः सर्वद्वीपसमुद्राणां यावत् परिक्षेपेण प्रज्ञप्तः, स खलु एकया जगत्या सर्वतः समन्तात् संपरिक्षिप्तः, सा खलु जगती तथैव यथा जम्बूद्वीपप्रज्ञप्ती यावत् एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे चतुर्दशसलिलाशतसहस्राणि पट्पञ्चाशतं च सलिलासहस्राणि भवन्तीति आख्यातानि, जम्बूद्वीपः खलु द्वीपः पञ्चचक्रभागसंस्थित आख्यात इति वदेत् । तावत् कथं जम्बूद्वीपो द्वीपः पञ्चचक्रभागसंस्थित आख्यात इति वदेत्, तावद् यदा खलु एतौ द्वौ सूर्यो सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु जम्बूद्वीपस्य द्वीपस्य त्रीन् पञ्चचक्रवालभागान् अवभासयतः उद्योतयत स्तापयतः प्रकाशयतः । एकोऽपि एकं द्वयः पञ्चचक्रवालभाग मवभासयति उद्योतयति तापयति प्रकाशयति । एकोऽपि एवं द्वयर्द्ध पश्चचक्रवालभागम् अवभासयति उद्योतयति तापयति प्रकाशयति । तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहत्तौं दिवसो भवति, जघन्या द्वादशमुहर्ता रात्रिभवति । तावद् यदा खलु एतौ द्वौ सूयौं सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरत स्तदा खलु जम्बूद्वीपस्य द्वीपस्य द्वौ चक्रवालभागी अवभासयतः उद्योतयत स्तापयतः प्रकाशयतः, तावदेकोऽपि एकं पञ्चचक्रवालभागम् अवभासयति उद्योतयति तापयति प्रकाशयति, एकोऽपि एक पश्चचक्रवालभागम् अवभासयति उद्योतयति तापयति प्रकाशयति । तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्ता रात्रिर्भवति, जघन्यो द्वादशमुहूर्तों दिवसो भवति ॥सू० २४॥ ॥ तृतीयं प्राभृतं समाप्तम् ॥ टीका-त्रिभिः प्राभृतप्राभृतै रूपेतमर्थाधिकारप्रतिपादकं द्वितीयं प्राभृतमभिधाय सम्प्रति तृतीयं प्राभृत मारभ्यते, तस्याप्ययमर्थाधिकारः-'ओभासइ केवइयं' चन्द्रसूर्यो वा कियत् શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy