SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ३०० सूर्यप्रज्ञप्तिसूत्रे चरति । तदा खलु दिवसरात्री तथैव, तस्मिंश्च खलु दिवसे द्विसप्ततिर्योजनसहस्राणि तापक्षेत्रं प्रज्ञप्तम्, तावद् यदा खलु सूर्यः सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति तदा खलु रात्रि दिवं तथैव, तस्मिंश्च खलु दिवसे अष्टाचत्वारिंशतानि योजनसहस्राणि तापक्षेत्र प्रज्ञप्तम्, तदा खलु चत्वारि चत्वारि योजनसहस्राणि सूर्य एकैकेन मुहर्तन गच्छति, तत्र ये ते एवमाहुः-पडपि पश्चापि चत्वार्यपि योजनसहस्राणि सूर्य एकैकेन मुहर्तेन गच्छति, ते एवमाहुः-तावत् सूर्यः खलु उद्गमनमुहूर्ते अस्तमनमुहूर्ते च शीघ्रगतिभवति, तदा खल षट् षड योजनसहस्राणिं एकैकेन मुहूर्त्तन गच्छति, मध्यमं तापक्षेत्रं समासादयन् समासादयन् सूर्यो मध्यमगतिर्भवति, तदा खलु पञ्च पश्च योजनसहस्राणि एकैकेन मुहूर्तेन गच्छति, मध्यमं तापक्षेत्रं सम्प्राप्तः सूर्यों मन्दगतिर्भवति, तदा खलु चत्वारि योजनसहस्राणि एकैकेन मुहर्तन गच्छति, तत्र को हेतु रितिवदेत् । तारत्खलु अयं जम्बूद्वीपो द्वीपः, यावत्परिक्षेपेण, तावद् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु दिवसरात्री तथैव, तस्मिंश्च खलु दिवसे एकनवति योजनसहस्राणि तापक्षेत्रं प्रज्ञप्तम्, तावद् यदा खलु सूर्यः सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति तदा खलु रात्रिंदिवं तथैव, तस्मिश्च खलु दिवसे एकषष्टियोजनसहस्राणि तापक्षेत्रं प्रज्ञप्तम्, तदा खलु षडपि पश्चापि चत्वार्यपि योजनसहस्राणि सूर्य एकैकेन मुहर्तेन गच्छति, एके एवमाहुः । वयं पुनरेवं वदामः-तावत् सातिरेकाणि पश्च पञ्च योजनसहस्राणि सूर्यः एकैकेन मुहर्तन गच्छति, तत्र को हेतुरितिवदेत् । तावदयं खलु जम्बूद्वीपो द्वीपः परिक्षेपेण, तावद् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु पञ्च पञ्च योजनसहस्राणि द्वे चैकपश्चाशद् योजनशते एकोनत्रिंशतं च पष्टिभागान् योजनस्य ५२५१ एकैकेन मुहूर्तेन गच्छति, तदा खलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशता योजनसहरी भ्यां त्रिषष्टाभ्यां योजनशताभ्या मेकविंशत्या च षष्टिभागै योजनस्य ४७२६३३. सूर्यश्चक्षुः स्पर्श शीघ्रमागच्छति, तदा खलु दिवसो रात्रिश्च तथैव, स निष्क्रामन् सूर्यों नवं संवत्सरमयनः प्रथमे अहोरात्रे अभ्यन्तरानन्तर मण्डलमुपसंक्रम्य चारं चरति, यावत् यदा खलु सूर्यः अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु पश्च योजनसहस्राणि द्वे च एकपञ्चाशद योजनशते सप्तचत्वारिंशता च षष्टिभागै योजनस्य ५२५१४ एकैकेन मुहर्तेन गच्छति, तदा खलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशता योजनसहनै रेकोनाशीतं योजनशतं सप्तपञ्चाशता पष्टिभागै योजनस्य षष्टिभागांश्चैकषष्टिधा छित्वा एकोनविंशत्या चूर्णिकाभागैः सूर्यश्चक्षुः स्पर्श शीघ्रमागच्छति, तदा खल दिवसरात्री तथैव, स निष्क्रामन् सूर्यों द्वितीयेऽहोरात्रे अभ्यन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति, तत्र यदा खलु सूर्यः अभ्यन्तरं तृतीय मण्डलमुपसंक्रम्य चारं चरति तदा खलु पश्च योजनसहस्राणि, द्वे च द्विपञ्चाशता योजनशते पञ्च च षष्टिभागा योजनस्य ५२५२३ एकैकेन मुहुर्तेन गच्छति, तदा खलु इहगतस्य मनुप्यस्य सप्तचत्वारिंशता योजनसहौः षण्णवत्या च योजनैः त्रयस्त्रिंशता च षष्टिभागै योजनस्य શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy