SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टोका सू० २० प्रथमप्राभृते अष्टमं प्राभृतप्राभृतम् २०१ द्विशेषोनं परिक्षेपेण, तदा खलु दिवसरात्रिप्रमाणं तथैव । स निष्क्रामन् सूर्यः द्वितीयेऽहोरात्रे अभ्यन्तरानन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति, ततः यदा खलु सूर्यः अभ्यन्तरानन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु तानि मण्डलपदानि अष्टाचत्वारिंशतम् एकषष्टिभागा योजनस्य बाहल्येन नवनवति योजनसहस्राणि पटू च एकपञ्चाशतं योजनशतं नव च एकपष्टिभागा योजनस्य आयामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि पञ्चदश च सहस्राणि एकं च पञ्चविंशतं योजनशतं परिक्षेपेण प्रज्ञप्तानि । ततः खलु दिवस रात्री तथैव । एवं खलु एतेन नयेन निष्क्रामन् सूर्यस्तस्मादनन्तरात्तस्मादनन्तरं मण्डलतो मण्डलमुपसंक्रामन् उपसंक्रामन् योजनानि पञ्चत्रिंशतं च एकषष्टिभागा योजनस्य एकैकस्मिन् मण्डले विष्कम्भवृद्धिम् अभिवर्तयन् अभिवर्द्धयन् अष्टादश अष्टादश योजनानि परिरयवृद्धिम् अभिवर्द्धयन् अभिवर्द्धयन् सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति । तत्र यदा खल सूर्यः सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु तन्मण्डलपदम् अष्टाचत्वारिशतम् एकपष्टिभागा योजनशतसहस्राणि षट् च सहितं योजनशतम् आयामविष्कम्भेण त्रीणि योजनशतसहस्राणि अष्टादशसहस्राणि त्रीणि च पञ्चदशोत्तराणि योजनशतानि परिक्षेषेण, तदा खलु उत्कर्षिका अष्टादशमुहर्ता रात्रिर्भवति, जघन्यो द्वादशमुहूतौ दिवसो भवति, एष खलु प्रथमः षण्मासः, एष खलु प्रथमस्य षण्मासस्य पर्यवसानः । स प्रविशन् सूर्यो द्वितीयं षण्मासमाददानः प्रथमे अहोरात्रे बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति, ततो यदा खल्ल सूर्यः बाह्यानन्तरमण्डलमुपसंक्रम्य चारं चरति, २ तदा खलु तन्मण्डलपदमष्टाचत्वारिंशतम् एकषष्टिभागा योजनस्य बाहल्येन एकं योजनशतसहस्रं षट् च चतुःपञ्चाशतं योजनयतं षडविंशतिश्च एकषष्टिभागा योजनस्य आयामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि द्विगुणितानि च सप्तनवतियोजनशतानि परिक्षेपेण प्रज्ञप्तानि, ततः खलु रात्रि दिवसौ तथैव । स प्रविशन् सूर्यो द्वितीयेऽहोरात्रे बाह्यं तृतीय मण्डलमुपसंक्रम्य चारं चरति, ततो यदा खलु सूर्यः बाह्यं तृतीयं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु तन्मण्डलपदं योजनशतसहस्रं षट् च अष्टाचत्वारिंशतं योजनशतं द्विपञ्चाशतं च एकषष्टिभागा योजनस्य आयामविष्कम्भेण, त्रीणि योजनशतसहस्राणि अष्टादशसहस्राणि द्विगुणानि एकोनाशीतानि योजनशतानि परिक्षेपेण प्रज्ञप्तानि, दिवसरात्री तथैव, एवं खलु एतेनोपायेन प्रविशन् सूर्यस्तस्मादनन्तरात्तस्मादनन्तरं मण्डलान्मण्डलं संक्रामन् संक्रामन् पञ्च पञ्चयोजनानि पञ्चत्रिंशतं च एकषष्टिभागा योजनस्य एकैकस्मिन् मण्डले विप्फम्भवृद्धिं निर्वेष्टयन निवष्टयन् अष्टादशयोजनानि परिरयवृद्धिं निर्वष्टयन निर्वेष्टयन् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, ततो यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खल तानि मण्डलपदानि अष्टाचत्वारिंशतम् एकषष्टिभागा योजनस्य बाहल्येन नवनवति योजनसहस्राणि षट् च चत्वारि योजनशतानि आयामविष्कम्भेन त्रीणि योजनशतसहस्राणि पञ्चदश च सहस्राणि एकोनाशीतिश्च योजनानि किश्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तानि ततः खलु उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहूतों दिवसो भवति, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy