SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १८ प्रथमप्राभृते षष्ठं प्राभृतप्राभृतम् १४९ विकम्प्य सूर्यश्वारं चरति । एके एवमाहुः १ । एके पुनः एवमाहुः २, ततः अर्द्ध तृतीयानि योजनानि एकैकेन रात्रिंदिवेन विकम्प्य विकम्प्य सूर्यश्चारं चरति । एके एवमाहुः २ । एके पुनरेवमाहुः ३, त्रिभागोनानि त्रीणि योजनानि एकैकेन रात्रिंदिवेन विकम्प्य विकम्प्य सूर्यश्चारं चरति, एके एवमाहुः ३,। एके पुनः एवमाहुः ४, ततः त्रीणि योजनानि अईसप्तचत्वारिंशतश्च व्यशीत्यधिकशतभागान् योजनस्य एकैकेन रात्रिदिवेन विकम्प्य विकम्प्य सूर्यश्चारं चरति, एके एवमाहुः ४ । एके पुन रेवमाहुः ५, अर्द्धचतुर्थानि योजनानि एकैकेन रात्रिंदिवेन विकम्प्य विकम्प्य सूर्यश्चारं चरति, एके एवमाहुः ५, एके पुनरेवमाहुः ६, चतुर्भागोनानि चत्वारि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य विकम्प्य सूर्यश्चारं चरति । एके एवमाहुः ६ । एके पुनरेवमाहुः ७, ततः चत्वारि योजनानि अर्द्धद्वापञ्चाशतश्च त्र्यशीत्यधिकशतभागान् योजनस्य एकैकेन रात्रिंदिवेन विकम्प्य विकम्प्य सूर्यश्चारं चरति । एके एवमाहुः ७, वयं पुनरेवं वदामः । ततो द्वे योजने अष्टाचत्वारिंशतश्चैकषष्टिभागान् योजनस्य एकैकं मण्डलम् एकैकेन रात्रिदिवेन सूर्यों विकम्प्य विकम्प्य चारं चरति । इत्यत्र को हेतु रितिवदेत् । ततोऽयं खलु जम्बूद्वीपो द्वीपो यावत्सर्वद्वीपसमुद्राणां परिक्षेपेण प्रज्ञप्तः । ततः यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु उत्तमकाष्ठा प्राप्तः उत्कर्षक: अष्टादशमुहूत्तों दिवसो भवति, जवन्या द्वादशमुहूर्ता रात्रि भवति, ततो निष्क्रामन् सूर्यः नवं संवत्सरमाददानः प्रथमे ऽहोरात्रे अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति, ततो यदा खलु सूर्यः अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु द्वे योजने अष्टाचत्वारिंशतश्चैकषष्टिभागान् योजनस्य एकैकेन रात्रिंदिवेन विकम्प्य विकम्प्य सूर्यश्वारं चरति, तदा खलु अष्टादशमुहत्तौ दिवसो भवति, द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामूनः, द्वादशमुहूर्ती रात्रि भवति द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्यामधिका, स निष्क्रामन् सूर्यः द्वितीयेऽहोरात्रे अभ्यन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति, तत्र यदा खलु सूर्यः अभ्यन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु पञ्चत्रिंशतं चैकपष्टिभागान् योजनस्य द्वाभ्यां रात्रिंदिवाभ्यां विकम्प्य चारं चरति । तदा खलु अष्टादशमुहूतौ दिवसो भवति चतुर्भिरेकपष्टिभागमुहूर्तेरूनः । द्वादशमुहूर्त्ता रात्रि भवति चतुमिरेकषष्टिभागमुहर्ररधिका । एवं खलु एतेनोपायेन निष्क्रामन् सूर्यः तदनन्तरान्मण्डलात तदनन्तरं मण्डलमुपसंक्रामन् उपसंक्रामन् द्वे योजने अष्टाचत्वारिंशतं च एकषष्टिभागान् योजनस्य एकैकं मण्डलम् एकैकेन रात्रिंदिवेन विकम्पयन् विकम्पयन् सर्ववाहय मण्डलमुपसंक्रम्य चारं चरति, ततो यदा खलु सूर्यः सर्वाभ्यन्तरात् मण्डलात् सर्वबाहय मण्डलमुपसंक्रम्य चारं चरति, तदा खलु सर्वाभ्यन्तरं मण्डलं प्रणिधाय एकेन त्र्यशीतेन रात्रिंदिवशतेन पञ्चदशोत्तरयोजनशतानि विकम्प्य चारं चरति, तदा खलु उत्तमकाष्ठा प्राप्ता उत्कर्षिका--अष्टादशमुहर्ता रात्रि भवति, जघन्यो द्वादशमुहूत्तों दिवसो भवति, । एष खलु प्रथमे षण्मासे, एष खलु प्रथमस्य षण्मासस्य पर्यवसानः । स यदा प्रविशन् सूर्यः द्वितीय શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy